पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( १२५ )
टीकाद्वयसहितम्।


 अनसूया-तंह यह भणसि। [ तथा यथा भणसि। ]

 प्रियंवदा -( प्रकाशम् ) साहि, दिट्ठिआ अणुरूबो दे आहेणिवेसो। साअरं उज्झिअ कहिं वा महाणई ओदरइ । को दाणिं सहआरं अन्तरेण अदिमुत्तलदं पल्लविदं सहेदि। [ सखि, दिष्ट्यानुरूपस्तेऽभिनिवेशः । सगरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेणतिमुक्तलतां पल्लवितां सहते ]


किं वीजयतो मां सख्यौ’ इति विषयनिवृत्तिः । एतयोरग्रेऽभिलाषकथनादेव त्रपानाश उक्तः । परिहार्यावस्थात्रयमेवावशिष्टमितेि दूर्गतमन्मयत्वम् । तथा च कद्वये- नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽर्थसंकल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥ ' इति । ननु पूर्वमभिलाषचिन्तनेत्यादिदशावस्था उक्ताः । अधुना तु नयनप्रीत्यादय उक्ता इति पूर्वापरानाकलनादिति चेन्न । आचार्यमतभेदमात्रत्वात् । अत एवोक्तम्- 'अभिलाषाद्यवस्थानां चक्षुःप्रीत्यादिकास्वपि। संभवादितरत्रापि तासां स्यादैक्यमेव तत् ॥ चिरंतनप्रसिद्ध्या तु विविच्य कथिता इमाः ॥’ इति । यरिमन्वद्धभावा सानुरागैषा स ललामभूतः प्रधानं पैरवाणाम् ! ता तस्माद्युक्तमस्या अभिलाषोऽभिनन्दितुम् । युक्तमिति प्रकृतत्वाल्लिङ्गविपर्ययः प्रथमायां वा द्वितीया । यथा भणसि तत्तथैवेत्यर्थः। दिष्टया दैवेनानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लविनीं सहते । स्वीयत्वेन परिगृह्णातीत्यर्थः । मालादृष्टान्तः । पूर्वत्र


शब्देन मदनावस्थाः कथ्यन्ते । दूरगतमन्मथा अन्वर्थमन्मथावस्था । मदनावस्थासु बह्वचोsवस्था अतिक्रान्ता इत्यर्थः । अत एव कालहरणस्याक्षमा विलंवे सति चरमा मरणावस्थैव भविष्यतीति यावत् । अवस्थाः कथ्यन्ते । शृंगारस्यांकुरितत्वपल्लवितत्वकुसुमितत्वफलितत्वहेतवो द्वादशावस्था भवन्ति ।‘‘ चक्षुःप्रीतिर्मन:संगः संकल्पोऽथ प्रलापनम् । जागरः कार्श्यमरतिर्लज्जात्यागोऽथ संज्वरः । उन्मादो मूर्छना चैव मरणं चरमं विदुः । ” इति । सहीत्यादि । यथा भणसि तत्तथैवेत्यर्थः। अभिनिवेशः अनुरागप्रकर्षः अनुरूपः अनुरागस्य महाकुलीनराजर्षिविषयकतया योग्य इत्यर्थः । दिष्ट्या अनायासेन ते तव आश्रमवासि-


१ सहि-सखि इत्यारभ्य औदई-अवतरति इत्यन्तं बाक्थमनसूबायास्तथा को दाणिं-क इदानम् इत्यारभ्य अर्हृत-अर्हति इत्येतं वाक्यं प्रियंवदाया इति कo पु० पर्हितम् । २ ( जनान्तिकम् ) साहि ( सखि ) इति क० पु० । ३ अरुहदि ( अर्हति ) इति क्व० पु० पाठः ।