पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( १९३ )
टीकाद्वयसहितम्।


राजा-( सहर्षम् ) श्रुतं श्रोतव्यम् ।

 स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः।
 दिवस इवार्धश्यामस्तपात्यये जीवलोकस्य ॥ १३ ॥


पथमागतः स तपोवनरक्षिता राजर्षिस्तत आरभ्य तद्गतेनाभिलाषेणैतद- वस्थास्मि संवृत्ता । स्मर इति । यस्तापहेतुः स एव निर्वापयितेति विरोधाभासः । वस्तुतस्तु तद्गतः स्मरस्तापहेतुर्नायिकागतो निर्वापयि- तेत्यर्थः । अत एव मे प्रतिकूलं दैवं स्मरेण मां तापयतीयं तेनैव मां निर्वापयतीति प्रतीतेर्व्यङ्ग्यो व्याघातालंकारः । ‘यथासाधितस्य तथैवान्येनान्यथाकरणं व्याघातः ’ इतेि तल्लक्षणात् । तत्रोपमामाह— दिवस एवेते। तपात्यये निदाघात्यये । प्रावृडारम्भ इत्यर्थः।‘उष्ण उष्णा- गमस्तपः ’ इत्यमरः । अर्धश्यामोऽर्धे मेधाक्रान्तत्वाच्छ्यामः सच्छायः पूर्वाह्णे सातपोऽपरत्र सच्छायो वा दिवसो जीवलोकस्य प्राणिव- र्गस्य तापयिता निर्वापयिता च यथा भवति । वृत्त्यनुप्रासः ।


अंतरगुणाः उक्ताः । यत्राकृतिस्तत्र गुणा वसंतीति श्रवणात् । राजर्षिरित्यनेन महाकु- लीनत्वं महदैश्वर्यं च सूचितं तेन च स्वस्य तस्मिन्ननुरागवत्त्वे हेतुरुक्तः । तपोवनरक्षिते- त्यनेन विलापो नाम षष्ठी स्मरदशा सूचिता । तदुक्तम् –“इह स्थित इहासीन इह चोपगतो मया । इति तैस्तैर्विलपितैर्विलापं संप्रयोजयेत् ॥ उद्विग्नात्यर्थमौत्सुक्यादरत्या च विलापिनी । इतस्ततश्च भ्रमति विलापस्थानमाश्रिता ॥” इति । उद्वेगातिशयात्परिदेवन विलाप इत्यर्थः । विलापसान्निध्यमेवोन्मादायतनं शंकाबीजम् । तदुक्तम् “ विलापा- तिशयादेव प्रकृतिविपर्ययादुन्मादः सप्तम्यवस्था ॥ " इति । अत्रैव पूर्वाचार्येयोविप्रति- पात्तिः । यतः किल मल्लनागाचार्यः सप्तममुन्मादमाह वात्स्यायनस्त्वष्टसमिति । श्रुत- मित्यादि । शकुन्तलया स्वशरीरसंतापस्य दुष्यन्तनिमित्ततया कथितत्वाच्छ्रोतव्यं श्रुत- मित्युक्तम्। स्मर इति । स्मर एव मदन एव तापहेतुः स्वस्य शकुन्तलायामनुरागमुत्पाद्य विरहपरंपराजनितदुःखेन संतापकरो जात इत्यर्थः । निर्वापयिता संतापशमयिता जातः स्वस्य यथा शकुन्तलायामनुरागं संपादितवान् तथा तस्या अपि स्वस्मि- न्ननुरागं संपाद्य तच्छरीरकार्श्यादीनां स्वनिमित्तश्रवणादनुरागस्योभयोरनुरागत्वान्मूर्ध- न्यतया फलोन्मुखं कृतवानित्यर्थः । मदनस्तु पक्षपातरहितो जात इति भावः । तत्र दृष्टान्तमाह-दिवस इवेत्यादि । तपात्यये ग्रीष्मान्ते अभ्रैर्मेैघैः श्यामः नीलः वर्षोन्मुख इति यावत् । वर्षाकाले एक एव दिवसः कंचित्कालं ग्रीष्मापेक्षयात्यर्थं तपति । स एवानन्तरक्षणे अभिवर्ष्य शैत्यजनको भवति । तथा रत्नावल्यामपि ‘‘ तपति


१ अभ्रश्यामः इति कo पु० पा० ।