पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विज्ञप्तिः ।

 इह खलु नानाविधसंसारक्लेशपरित्रस्तस्य चेतसो निर्दूतये सत्काव्या स्वादसदृशं नान्यदुपलभ्यते बस्तु । तत्र हि वाच्यमाने तिरोभवति त्रिषादो मनसः प्रादुर्भवत्यानन्दः. समधिगम्यते व्यावहारिकं प्राविण्यम्, प्रतिभाति च निकामं बुद्धिः। निरन्तरं तत्संसेवमानश्च मनुजो न चिरादेव तिरस्क रोति ब्रह्मनन्दम् ।

 तच्च काव्यं नाम रसात्मकं वाक्यं श्रव्यदृश्यभेदाद्विविधम् । तत्र च श्रवणमात्रेणानन्दजनकानि रघुवंशकुमारसंभत्रप्रभृतीनि श्रव्यकाव्यानि । सपदि चक्षुःश्रवणयोः प्रतिजनकानि नानारसभावभास्वराणि नटैरभिनेयार्थानि शाकुन्तळमाळविकाग्निमित्रप्रमुखान्यष्टाविंशतिप्रकाराणि रूपकोपरूपकापर- पर्यायाणि दृश्यकाव्यानि समधिकरमणीयानि श्रव्येभ्यः ।

 निसर्गत एव रमणीयं रूपकं नामतत्र च नाटकं, तत्र च सुकविग्र थितवस्तुकम्, तत्र च श्रीमता महाकविकुटालंकारेण श्रीकालिदासेन प्रथित- मिन्यहो रमणीयतायाः काष्टा ।

 नैकविधव्यवहारमूलकतया च रूपकाणां स्वत एव दुर्गमत्वेनावश्यं व्याख्यासापेक्षत्वम् : अभिज्ञानशाकुन्तले च समीचीनाया व्याख्याया अभाबाहुर्बोधतया रसपारभूततया च तदास्वादमभिलष्यन्तो रसिका आमूलं कटकच्छन केतकीप्रसूनमनुधावन्तो मधुकरा इव नितान्तं दुःखायन्त इति तस्य सरलव्याख्यासापेक्षत्वमवबुध्यास्माभिर्लब्धा महता प्रयत्नेनाष्टभाषाचक्र वर्तीनिवासाचार्यत्रिरचिता शाकुन्तलव्याख्या । इयं व्याख्या स्फुटत्वा द्विस्तुतत्वाच्छास्त्रप्रमाणितयुक्तिमत्वाच्छीकालिदासकवशिहृदयस्य सर्वतः प्रक- शनेऽलमितिविचार्येमां व्याख्यासान्भ्रलिपितोऽस्माभिर्देवनागराक्षरैर्विपरिवर्षे मुद्रिता । राघवभट्टविरचितार्थद्योतनिकाख्या व्याख्याप्यनया साकं मुद्रिता ।

 अत्र च यद्यपि बहुविधानि पाठान्तराणि तथापि तेषामतिमात्रशोभावह कस्वाभावाद्द्वसंवादित्वाभावाच्च नात्र संग्रहणम् । कितु यानि पाठान्तराणि