पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १८० )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


( परिक्रम्याव्लोक्य च ) अनया वालपादपवीथ्या सुतनुरचिरं गतेति तर्कयामि । कुतः

सम्मीलन्ति न तावद्बन्धनकोशास्तयावचितपुष्पाः।
क्षीरस्निग्धाश्चामी दृश्यन्ते किसलयच्छेदाः ॥ ७ ॥

(स्पर्शं रूपयित्वा )। अहो ! प्रवातसुभगोऽयं वनोद्देशः ।


इत्यन्तेन परिसर्पो नामाङ्गमुपाक्षिप्तम् । तल्लक्षणं तु-‘दृष्टनष्टानुसरणं परिसर्प इतीरितः’ इति | अहो इति । अकस्माद्वातस्पर्शसंजातसुखेनाश्चर्यम् । प्रकृष्टो वातस्तेन सुभगो मनोहरः । अत्र सौभाग्यं चेतनधर्मः संदेशे न संभवतीति मुख्यार्थबाधेन यो मनोहरः स सुभगो भवतीति कार्यकारणसंबन्धेन मनोज्ञत्वं लक्षयन्विरहितमनोविनोदनत्वादिकं ध्वनति ॥


यतः रत्नावल्या प्रथमजानानुरागे वत्सराजे जातानुरागायः रत्नावल्याः "दुल्लभजणाणुराओ" इत्यादौ पूर्वानुरागस्याभासत्वप्रसंगोऽस्तीति चेदुच्यते । अभावो हि त्रिविधः प्रागभावोऽत्यन्ताभावः प्रध्वंसाभावश्चेति । तत्र प्रागभावे दर्शनादिकारणेषु रागोत्पत्ति संभावनयाभासत्वं इतरयोस्तु कारणसद्भावेऽपि रागानुत्पत्तेराभासत्वमेव । केचित्तु त्रिधेन रागाभावे रसस्याभासत्वं प्रतिजानते । अन्ये तु तिर्यङ्म्लेच्छगतयोराभासत्वं न युज्यते तयोर्विभावादिसंभवे नास्वादयोग्यता प्रतीतेरिति वदंति तथा विद्याधरेणैकावल्यां समर्पितम् । अपरे रमाभावं तिर्यक्षु प्रचक्षते तन्न परीक्षाक्षमं तेष्वपि विभावादिसंभवात् । विभावादिज्ञानज्ञानशून्यास्तिर्यञ्चो न भाजनं रसस्य भवितुमर्हन्तीति चेन्न मनुष्येष्वपि केषुचित्तथाभूतेषु रसविषयाभावप्रसंगात् । विभावादिज्ञानं नामौचित्यविवेकः तेन शून्यास्तिर्यञ्चो न विभावनामर्हन्ति तर्हि विभावादिज्ञानरहितेषु मनुष्येषु रसाभावप्रसंग इति चेन्नैष दोषः विभावादिसम्भवो बहीरसं प्रति प्रयोजको विशिष्टप्रयोजकः । विशिष्टप्रयोजकत्वांगीकारे विवेकादिविशेषानुप्रवेशोऽङ्गीकृतः । ननु सीतादिविभावैर्वस्तुमात्रैरेव योषिन्मात्रप्रतीतौ सामाजिकानां रसोदयः न पुनर्विशिष्टैः तत्कथमिति चेदुच्यते । तत्र जनकतनयात्वरामपरिगृहीतृत्वाद्यतिविरुद्धधर्मपरिहारेण ललितोज्ज्वलशुचिदर्शनीयत्वादिविशिष्ट एव सीतादिभावो योषित्सामान्यं तादृशमेव ज्ञापयति न पुनः स्त्रीजातिमात्रमिति सर्वं निरवद्यम् । तत्रैवेत्यादि। तावद्गच्छामि गमिष्यामि । तत्रैवेत्यनेन स्वस्थेनरकार्यवैमुख्यं सूच्यते । अनेन परिसर्पो नाम प्रतिसुखसन्ध्यंगमुक्तम् । तदुक्तम् "दृष्टस्यादर्शने पश्चात्परिसर्पो गवेषणम्" इति । अत्र प्रथमदृष्टायाः शकुन्तलायाः पश्चाद्दर्शनार्थं मालिनीतीरगतं दुष्यन्तेन विचारितमिति परिसर्पः । अहो इत्यादि । उद्देशः प्रदेशः प्रवाल-


१ एतद्भ्य किसलयच्छेदः इय० क० पु० १ २ स्पर्शसुखम् इति पा७