पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( १७७ )
टीकाद्वयसहितम्।

तव कुसुमशरत्वं शीतरश्मित्वमिन्दो-
र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै-
स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ।। ३ ।।


धीयते वञ्च्यते। ‘अतसमौ वञ्चने ’ इति गणपाठात् । तदेवाह - तवेति । कुसुमशब्देनात्यन्तपेलवत्वं ध्वनितम् । कुसुमशरस्य भावः कुसुमशरत्वम् । अत्र चूर्णिकायां चन्द्रमसा चेत्युक्तेस्तवेतिवत्सर्वनामपरामर्शो न्याय्यो नेन्दुपदोपादानम् । तेन “त्वमस्य द्वयम्’ इति पठनीयम् । अयथार्थम् । तेन विपरीतार्थमित्यर्थः । “तदन्यतद्विरुद्धतदभावेषु नञ्चर्तते' इति विरुद्धार्थोऽत्र नञ् । मद्विधेषु विरहिष्वित्यर्थः । अत्रापि मयीति विशेषे प्रस्तुते सामान्योक्तेरप्रस्तुतप्रंशसा । अयथार्थत्व उत्तरवाक्यार्थं हेतुत्वेनाह - विसृजतीति । यत इन्दुः, हिमं गर्भे येषां तैः । अनेन कालत्रयेऽप्युषणत्वशङ्कामात्रमपि नास्तीति व्यज्यते । मयूखैः किरणरग्निं विसृजति किरति । अवज्रसारान्वज्रसारान्करोषि वज्रसारीकरोति । यद्वा वज्रवत्सारीकरोषि दृढीकरोषि । काव्यलिङ्गं रूपकमुपमा । क्रमेण हिमगर्भैः-


बाध्यते । सार्थः समूहः न त्वहमेक एवेत्यभिप्रायः। उक्तमर्थमुपपादयति-तव कुसुमेत्यादिना । तवेत्येकवचनेन मदनस्य नैर्घृण्यादनभिजातत्वं सूच्यते । कुसुमशरत्वमित्यनेन लोकानां विश्वसनीयतायां पराकाष्ठा सूचिता । "इंदि क्लेदेन" इत्यस्य धातोः स्वरव्यत्यासेनामृतवद्रूपार्थ इंदुशब्दः । शीतरश्मित्वमित्यनेन शीतलत्वे सर्वलोकसंवादः सूच्यते । द्वयदिदम् अनुभूतं द्वयमपि अयथार्थम् । यथाशब्दाः सादृश्ये श्रूयमाणार्थो यथा तादृगर्थरहितम् । मद्विधेषु केवलं माये न मत्सदृशेषु सर्वेष्वित्यर्थः। दृश्यते स्फुटं विभाव्यते नतु लोकवार्तामात्रमिति यावत् । अतिसन्धानप्रकारमाह -हिमगर्भैर्मयूखैरग्निं विसृजतीति । गर्भशब्दस्त्वावरणवाचकः । एषामंतःस्थिताग्नेर्हिममावरणं तैः किरणैरिति यावत् । अग्निं हिमेन प्रच्छाद्य मुंचतीत्यर्थः । कुसुमान्येव बाणाः शोषणमोहनादिलक्षणारविंदाशोकादिबाणाः तान् वञ्जसारीकरोषि अवज्रसारान्कोमलान्वज्रसमानदार्ढ्यान् करोषि यथा वज्रं पर्वतं भिनत्ति तथा मम हृदयं पर्वतादप्यधिकतरधैर्यमुद्भिद्य भिनत्तीत्यर्थः । क्रियापदे वर्तमानार्थप्रत्ययेन जीवितसंशयं गते मय्यद्यापि बाणान्मुंञ्चसीति व्यज्यते तेन च तस्य नृशंसत्वं सूचितम् । हिमगर्भैर्मयूखैरग्निं विसृजतीत्यनेनात्युद्दीपकतया । निश्यपि निद्राच्छेदरूपा चतुर्थी स्मरदशा सूचिता । अनेन निश्यपि निद्राभावात्स्वप्नेऽपि तस्याः संगमो नास्तीति सूच्यते । विसृजतीति वर्तमानव्यपदेशेन दिवा चंद्रकिरणाभावात्पूर्वरात्रानुभूतचंद्रकिरणानां गाढव्यथाकारित्वं सूच्यते अतिदुःखानुभवादद्याप्यनुभूयमाना इव चंद्र-