पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( १७५ )
टीकाद्वयसहितम्।


(ततः प्रविशाते कामयमानावस्थो राजा)

 राजा- (निःश्वस्य)

जाने तपसो वीर्ये सा बाला परवतीति मे विदितम् ।
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ २ ॥


भविष्यत्सूचनामिति ज्ञेयम् | कामयमानो विरही तस्येवावस्था यस्य स तथा । क्वचित् ‘कामयानः’ इति पाठः । सोऽप्यनित्यमा (त्यं मुमा)पमानुशासनमिति मुक्यकृते साधुः । तथा च वामनाचार्यसूत्रम् -'कामयानशब्दः सिद्धोऽनादिश्व' इतेि । तत्र राजानकमम्मटेन व्याख्यातम् - अनित्यमा (त्यं सुमा) गमानुशासनम्’ इति । यद्वा कामस्य यान उद्गमन आरोहणे वा या अवस्था अभिलाषाद्यास्ता यस्य सः । जान इति । अहं तपसो वीर्ये जाने । प्रसह्य धर्षणीया न भवतीति भावः । प्रसह्य घर्षणीयत्वाभावे कार्ये प्रस्तुते यदप्रस्तुतं तपसो वीर्ये जान इति कार्यमुक्तं साप्रस्तुतप्रशंसा । तर्हि सैवागमिष्यतीत्यत आह-सेति। सा बालाप्रगल्भा परवती पराधीनेत्युभयं विधेयम् । अयं व्याजो भविष्यतीत्याह - इति मे विदितम् । म इति मयेत्यर्थं निपातः । तदुक्तं वामनाचर्यैः -' तेमेशब्दे निपातौ त्वयाममेयर्थे’ इति । नपुंसके भावे क्तस्य शेपविवक्षायां चेति वा संबन्धे षष्ठी । एवं यद्यपि तथापि शकुन्तलायाः सकाशादिदं मया सह संबद्धं मां च परित्यज्य क्षणमात्रपरिचत आसक्तमिति निह्नीकं हृदयं निवर्तयितुं नालं न समर्थोऽस्मि | स्वयं न निवर्तते, मयाप्यशक्यं निवर्तनमित्यर्थः। वेदनक्रियाया हृदयनिवर्तनक्रियायाश्च विरोधः । तदा-


ततःप्रविशतीत्यादि । ततः शिष्यनिष्क्रमणानन्तरं कामयमानावस्यः प्रार्थयमानावस्थः । जन इत्यादि । तपसः वीर्ये प्रभावम् । "वीर्यें शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि” इति वैजयंती । जाने युध्ये अहमिति शेषः । अनेन यदि शकुन्तलां बलादपहरामि तदा सर्वसंहारकरी काश्यपमुनिशापो भवेदिति ध्वन्यते । सा अनुभूता तदुक्तम् । ‘प्रक्रान्तप्रसिद्धानिभूतार्थस्तच्छब्दो यच्छब्दं नापेक्षते' इति । बाला अप्रगल्भा । परवती पराधीनेति विदितम् । प्रथमेऽङ्के प्रियंवदानसूयाभ्यां शकुन्तलायाः काश्यपसुतात्वपरिग्रहत्वकथनेन ज्ञातम् । यद्यपि मुनेस्तपस्सामर्थ्यं तथापि तदधीनत्वाभावे प्रागल्भ्यवत्त्वे च तद्धटना संभवतीत्यभिप्रायः । तर्हि सा अप्रगल्भा पराधीना च मुनिशापश्च दुर्निवारो यदि तद्विषयचिन्तैव त्यज्यतामित्यत आह तथापीति ।