पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १७४ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


च नलिनीपत्राणि नीयन्ते । ('आकण्यै) किं ब्रवीषि । आतपलङ्गनाद्बलवदस्वस्थां शकुन्तला । तस्याः शरीरनिर्वापणायेति । तर्हि त्वरितं गम्यताम् । सखि, सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि । (इति निष्क्रान्तः)

(इति विष्कम्भकः


तल्लक्षणं तु दशरूपके - 'किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् !श्रुत्वेवानुक्तमप्येकस्तत्स्यादाकाशभाषितम् |' इति । नाट्यधर्मोऽयम् । आकर्ण्यकर्णनमभिनीय । तच्च पार्श्वनतेन शिरसा स्तब्धेन नेत्रेण । तल्लक्षणं तु- 'पार्श्वस्थानिमुखं यत्तु तत्पार्श्वाननमुच्यते ।' 'प्रयु(यो)ज्यमाकर्णनादौ पार्श्वस्थ्स्यावलोकने । यत्तु स्यान्निश्चलपुटं स्तब्धनेत्रं प्रचक्षते ॥' इति । विष्कम्भकः । तल्लक्षणं तु सुधाकरे - 'तत्र विष्कम्भको भूतभाविवस्त्वंशसूचकः । अमुख्यपात्ररचितः सक्षेपैकप्रयोजनः ॥ द्विवा स शुद्धो मिश्रश्च मिश्रः स्यान्नीचमध्यमैः । शुद्धःकेवलमध्योऽयमेकानेककृतो द्विवा ॥' इति । तदयमेककृतः शुद्धः । अत्र , दुषन्तस्याश्रमाभ्यन्तरागमनं कृततपस्विकार्यत्वेन निराकुलत्वं सु (स) भूतसूचनं शकुन्तलाया आतपलंघनव्याजेन विरहावस्थाकथनं


सनप्रयोजनमाह - यावदिन्शदि। यावदुपहरामि समर्पयिष्यामि । आकाश इति । नाट्ये रंगमञ्चे

नेपथ्यव्यतिरिक्तस्थानमाकाश इत्युच्यते ! नीयन्ते प्राप्यन्ते आतपलंघनादातरातिक्रमात् बलवद्दृढम् । अन्यस्या पीडिता | निर्वापवाद शमनार्थम् । किं प्रश्ने । अत्रप्रविष्टा प्रियंवदा तदापादाकाशभाषितमित्यवगन्तव्यम् । तदुक्तम् - "किं प्रविष्येवमित्यादि विना ब्रवीति पात्रं यः | श्रुत्वेवानुक्तमप्येकस्तत्स्याकाशभाषितम्॥" इति । नाठ्य प्रत्युक्त्यवमरप्रदानार्थमाकाशभापितं कर्तव्यम् | तदुक्तम् " प्रश्नो दूतश्च लोपश्च नेपष्योक्तिस्तथैव च | आकाशोक्तिश्च पंचैते प्रत्युक्त्यवसरप्रद्मः ||" इति| तर्हीत्यादि तर्हि तथा चेत् बलवदस्वस्था चेदित्यर्थः । शीघं यत्नेनोपक्रम्यताम् चिकित्स्यताम् । उच्छ्वसितां जीवितं जीवितकारणमिति यावत् । वैतानिकं वितानो यागः तत्संबंधि वैतानिकम् । गौतमी कण्वभगिनी । शुद्धविष्कंभः विष्कंभलक्षणं चतुर्थेऽङ्के निरूप्यते ।

१ अतिमभिनय ३० पा० । २ संतापनिर्वापण्याय ३० पा० ।

३ यत्नादुपक्रम्यताम् इ० पा० ८ शुद्धविष्कंभ ३० ० ।