पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १६३ )
टीकाद्वयसहितम्।


अध्याक्रान्ता वसातिरमुनष्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं संचिनोति ।
अस्योपि द्यां स्पृशति वशिश्चारणद्वंद्वगीतः
पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४ ॥


श्चर्ये । दीप्तिमतोऽपि तेजयुक्तस्यापि नातेिभिन्ने सदृशे | न समासः । सादृश्यमेव श्लोकेनाह-अधीति । अमुना अपिशदात्सर्वत्र मुनिः । सर्वैर्ब्रह्मचारिप्रमुखैर्भोग्य आश्रयणीयः सर्नुभोग्यस्तस्मिन्नाश्रमे गृहस्थाश्रमे वसतिगृहमध्याक्रान्तम् ( न्ता ) अङ्गीकृतम् ( ता )। मुनिपक्षे सर्वैर्बटुभिर्भोग्यः पाठार्थमाश्रयणीयस्तास्मन्नाश्रमे मठे वसातेिः स्थानमङ्गीकृतम् |

आश्रमे व्रतिनां मठे । ब्रह्मचर्यादिचतुष्के ? इति । वसतिः स्यादवस्थाने

निशायां सदनेऽपि च’ इति हैमः । उक्तं च पद्मपुराणे-“ यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः । तथा गृहस्थमाश्रित्य वर्तन्ते चतुराश्रमाः ॥ १इति । रक्षायोगात्प्रजापरिपालनात् । तपो लोकोत्तरं धर्मम् । संचिनोति रक्षार्थं शरीररक्षार्थम् । योगोऽष्टाङ्गस्तन्निमित्तम् । तपश्चन्द्रायणादि !


शेतिस्तु दुरासदतेजोविशेषः हे खिनोऽपीति यावत् । राझां दीप्तिस्तु नाहात्म्यजनितभयंकरतेजोविशेषः । तथा हि सर्वोऽपि क्षयंकरपदार्थस्त्रिविधः । आकृतिभीषणः क्रियाभीषणो माहात्म्यभषणश्चेति । तत्र आकृतिभषिणा रक्षःपिशाचादयः । क्रियाभषिणः परशुरामवीरभद्रहनुमत्प्रभृतयः| नाहात्म्यभीषणाः युधिष्ठिरादयः अत्र माहात्म्यभीषणं राबवपुर्विनयादिगुणैर्विश्वसनीयं जातमिति यावत् । अनेन राज्ञः प्रत्युत्थानादिसत्कारः सूच्यते । यद्वा दीप्तिर्नाम महाभाग्यादिद्योतकः। कान्तिविशेषः तादृशक्रांतिविशेषवतोऽपि सार्वभौमस्यापीति यावत् । तत्रापि वपुष इत्यनेन यौवनमध्यवर्तित्वं व्यज्यते । विश्वसनीयता उपसर्पणार्हता प्रत्युत्थानादिविनयकियेति यावत् । अहो आश्चर्यं महैश्वर्यवतः सार्वभौमस्य विनयादिकमाश्चर्यमिति भावः । अथवा ऋषिभ्यो नातिभिन्ने उपशमवद्भ्योऽत्यर्थमपृथग्भूते किंंत्वीपदेव पृथग्भूत इति यावत् एतत् । यद्वपुषा विश्वसनीयत्वं प्रत्युत्थानविनयादिकमिति यावत् । उपपन्नं युकं ऋषिभ्यो नातिभिन्नत्वाग्द्योयमिति यावत् । नवयौवनरूपसार्वभौमत्वादि महदैश्वर्यं महतां विनयकरं किंंतु नीचानामेव मदकरमिति भावः । कुतः कस्मात्कारणात् । इत्याशंक्याह--अध्याक्रान्तेत्यादि । अमुना अपि दुष्यन्तेनापि सर्वभोग्ये सर्ववर्णानां विनयधानरक्षणभरणार्हे आश्रमे राज्यपरिपालनाधिकारे । सर्वभोग्य


१ अथापि इ० पी० ।