पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः २]
( १५९ )
टीकाद्वयसहितम्।


दर्भाङ्करेण चरणः क्षत इत्यकाण्डे
तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती
शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ १२ ॥


मत्यर्थमाविष्कृतो भावश्चित्ताभिप्रायः शालीनकौपीने अधृष्टाकर्ययोः इति निपातः । अत एव प्रथमाङ्कान्ते “ सव्याजं विलम्ब्य ’ इत्युक्तेः / मिथोऽन्योन्यं रहस्यपि ’ इत्यमरः दर्भाति । तन्वी स् कतिचिदेव द्वित्राण्येव । नतु त्रिचतुरााणें । तेनौत्कण्ठातिशयो ध्वनितः । पदानि गत्वाऽकाण्डेऽनवसरेऽकस्मास्थिता । काण्डं चावसरे बाणे' इति धराणिः । तन्त्रीत्वादेव गमनासहत्वं भविष्यतीत्यत आह-दभीकुरेण चरणः क्षत इति । न तु दर्भाण। तस्य सत्त्वे व्याजो न स्यात् । अंकुरस्यादृश्यमानतया व्याजसंभवान् ! अतोंऽकुरपदेन व्याजेन विलम्बितमिति ध्वनितम् । द्रुमाणां शाखास्वसक्तमपि वल्कलं विमोचयन्ती विवृत्तवदनासीत् । अत्र बहुवचने विवृत्तवदनात्मस्य वृत्तिर्युक्ता । विरोधाभास हेतुश्च। श्रुतिवृत्यनुप्रासौ । रणेरण इति द्वानिनेति छेकानुप्रासोऽपि । वसंततिलका वृत्तम् | अथानुरागे ङ्गिताभिंत्यधिंकृस्योक्तं रतिविलासे विरौवस्तु पथि व्याजापरावृत्यापि द्


अस्थानै परस्परगमने सती शलीनतयापि विनयादौ सत्यपि पुनर्दर्शनाभावकातरतया भावोऽभिप्रायः भूयिष्ठं बहु । भूयिष्ठमित्यनेन यद्युप्युत्तमनायिकाया ललितविलोकना दीनां स्वाभाविकरमणीयत्वं तथापि स्वानुरागाभिव्यक्तिर्यथा भवति तथा निःशकं प्रद इत इति भावः । भावप्रदर्शनप्रकारमाह दुर्भारेणेत्यादिना । अकाण्डे अस्मात् कारणं विनेति यावत् । यत्र मार्गे दर्भाकुरो न विद्यते तत्र गमनेऽपीत्यर्थः। चरणः पादः चरणस्यैव येनकेनापि व्यथाव्याजकल्पने सत्यवस्थानविलंचे प्रति हेतुत्वात्तेन विना गमनक्रियासंभवाश्चरण इत्युकम् । दर्भाङ्करेण ऋतः खंडितः आविद्ध इति यावत् । कति चिदैव स्वल्पान्येव पदानि गत्वा न हैि किंचिडूरं गत्वेति यावत् । कतिचिदेवेत्यनेन स्खविरहे तस्याः सद्य एव वैवर्येक्षामतादिकं जातमिति योत्यते । अत एवाह-तन्वीति । अत्र तन्वशब्दप्रयोगेणापि स्वविरहे तस्याः कश्यदिकं सूच्यते । मिथ्यापलम्नदभकुरो द्रणव्याजेन स्थितेत्यर्थः । अंकुरस्यैव कंटकवऊँधे सामथ्र्योत् । द्रुमाणां शाखासु असक्त- मयलग्नमपि बिऋतवदना वलितवदना विमोचयंते विशेषेण मोचयंती । विशेषमोचनं तु शीघ्रकर्षेणेः श्रुटितं भविष्यतीति । तेनावस्थाने हेतुरुत द्रुमाणां शखखिति बहु- वचनेनापि चिरावस्थाने कारणं व्यज्यते । स्वस्थ गुरुपराधेनतया स्वयमेवाभिसरणं कर्तुं