पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः २]
( १५५ )
टीकाद्वयसहितम्।


 विदूषकः--तेण हि लहु परित्ताअदु णं भवं । भा कस्स वि- तवस्सिणो इङ्दीतटमिस्साचकणसीसस्स हैल्थे पडिस्सदि [ तेन हि लूख पूरित्रायतामेनां भवान्। मा कस्यापि तपस्विन इङ्गुदी तैलमिश्रचिक्कणशीर्षस्थ हस्ते पतिष्यति ॥


मित्यादिकैर्विशेषणैः कन्यात्वेन स्वयोग्यतां सूचयन्पुष्पादिभिरुपमानैः क्रमेण परिभोगयोग्यता कान्तिमत्ता स्रग्धता हृद्यतोत्तमजनाभिलषणीयता वनिता । अथ पञ्चभिरुपमानपदैत्रणभ्य चरसनेन्द्रियतर्पकत्वमपि ध्वनितम् । पुण्यफळस्य श्रवणरूपत्वात्तेन प्रत्यक्षातृकारो ध्वन्यते । विधेचैन । इह जगतेि । अनयभदुःखं निष्पापं च ! ° अंहो दुःखव्य सनेष्वघम्' इत्यमरः । अमलं मनोज्ञे या ! ° अनधो. निर्मापापमनोज्ञेषु च भेद्यवत्' इति विश्वः । तादृशस्यैव तद्रोङ्कः संभवात् कं भोक्तारमुप स्थास्ययुषसंक्रमेष्यतेि । उपगमष्यतीत्यर्थः। अहं न जाने । स्वदृष्टिरणो चरत्वादेतहूपानुरूपतरुणसृष्टेरभावादोत भावःउपपूर्वात्तिष्ठतेर्मन्त्रकरणा- र्थासंभवादात्मनेपदम् । अनघममळमितेि रूपविशेषणं न । अथवानघ- मिति मधुव्यतिरिक्तपुष्पादेर्विशेषणत्वेन योज्यम् । तेन विशेवणप्रक्रमभङ्गः परिहृतो भवते । आथे मनोज्ञ द्वितीयेऽपापं लक्षणया कठोरं तृतीयेऽमी पञ्चमेऽदुःखमिति योजनीयम् । यद्वॉनघमित मालोपमायाभभिन्न वाच्यः सामान्यधर्मः नवमति मध्येऽयुपात्तं सर्वेषां विशेषणत्वेन योज्यम् । ‘फलमपि च' इति पाठे व्यस्तं मालारूपकं ज्ञेयम् । भोजस्तु ‘पुष्पकिंसळ ग्ररत्नमधुपुण्यफळानामनाम्नातामित्यादिविशेषणापादितव्यतिरेकाणां प्रत यमानसादृश्येन शकुन्तळरूपेण रूपणाद्यातिरेकवदूपकम् इत्याह स्म । अत्र च विशेषणविशेष्यविशेषणक्रमेणैवोपनिबन्धान्न प्रक्रमभङ्गः । श्रुति- वृत्त्यनुप्रासै । शिखरिणीवृत्तम् । एताभ्यां पर्याभ्यां गुणकीर्तनं नाम चतुर्वैवस्योक्ता । तद्वक्षणं तु ‘सौन्दर्यादिगुणश्लाघा गुणकीर्तनमत्र हि इति । तेन कारणेन लखु शत्रम् । लघु क्षिप्रमरं दूतम्' इत्यमरः परिं


स्तुल्यतर्कः । अत्र शकुन्तलारूपस्य पूर्वार्धपादद्वये रूपकं तृतीयपादै उपमा एवं तर्तुपाति शयं प्रतिपाद्य चतुर्थपादेन तत्प्राप्तिविचारः कृत इति तुल्यतर्कः। किंच गुणकीर्तनं नामा. लंकारोऽपि । तदुक्तम् ' लोकोञ्छवहुपदार्थसाधर्येण वस्तुवर्णनं गुणकीर्तनम् ‘’ इति । अत्रानामृतमित्यादिभिः सद्योविकसितकुसुमादिभिरौपम्येन शकुन्तलारूपवर्णनं कृतमिति गुणकीर्तनं भवति । तेण हीत्यादि । तेन पूर्वोकगुणवत्वहेतुन लखु शीघ्रम् । शक्षुिषारत्राणे


१ आरण्णअस्स (आरण्यकस्य ) इत्यधिकं इ० पू० ।