पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(१५०)
[द्वितीयः
अभिज्ञानशाकुन्तलम् ।

 विदुषकः-- (विहस्य) ज[१]ह कस्स वि पिण्डखज्जूरेहिं उव्वेजिदस्स विन्तिलीए अहिलासो भवे, तह इत्थिआरअणपरिभाविणो भवतो इअं अव्भत्थणा । [यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्तिण्यामभिलाषो भवेत्, तथा स्त्रीरत्रपरिभाविनो भवत इव मभ्यर्थना]

 राजा--न तावदेनां पश्यासि येनै[२]वभवादीः ।

 विदूषकः--तं क्खु रमणेिज्जं जं[३] भवदो वि विह्मअं उप्पादेदि । [तत्खलु रमणीयं यद्वतोऽपि विस्मयमुत्पादयाति]

 राजा--वयस्य, किं बहुना ।


स्येत्युक्तिः । यथा कस्यापि पिण्डः खीर्जूरविशेषस्तैरुद्वेजितस्य तिन्तिष्यां चिञ्चायामभिलाषो भवेत्तथा स्त्रीरत्नानि परिभवितुं तिरस्कर्तुं शीलं यस्य तस्य भवत इयमभ्यर्थना ! पुनःपुनरुच्यमानराजवचनेन यथार्थप्रतीत्याहतत्खलु निश्चितं रमणीयं यद्भवतेऽपि विस्मयमुत्पादयति । अपिशब्देनास्मदादीनां विस्मयोत्पादने किं वक्तव्यमिति सूचितम् । किंबहूनेत्य


त्यमनुमीयन इत्यर्थः । "वार्तासंभव्ययोः किल" इयमरः । तत्र दृष्टाद्तमाह-अर्कस्येत्यादिना । अर्कस्य वृक्षविशेषस्योपरि च्युतं शिथिलं नवमालिकाकुसुममिव । अनेन पुष्पोपमानेन शकुन्तलायाः पझिनीजातिता सूच्यते । नवमालिकाकुसुमस्य यथार्कवृक्षस्योपर दैवादपतनं तद्वत् शकुन्तलाया अपि मेनकविश्वामित्रसंभवत्वेऽपि काश्यपनिकटावस्थानमिति यावत् । माढव्यानवाप्तचक्षुःफलोऽसीदिनैतदन्तेन बीजस्य पुनरविच्छेदायोद्वेदाद्बिन्दुरुक्तः तदुक्तम्-"अवान्तरप्रयोजनवशन्कार्यविच्छेदे सति पुनः प्रकृतकायेंसूचनं बिन्दुः" इति अत्र प्रथमाङ्कान्ते मत्तगजागभनभीत्या द्वितीयांंकादीं मृगयाविषयसेनाप्रतिवाक्यादिभिर्बिच्छिन्नस्यानुरागस्य पुनरविच्छेदायोपक्षेपः कृत इत्यस्मिन्नाटके विन्दुरित्यवगन्तव्यम् । भो इत्यादि ॥ पिण्डखर्जूरं नाम पिण्डीकृत खर्जूरविशेषः तैरुद्देजितस्य बहुलमधुररसभक्षणेन वैमनस्यं प्रापितरय तिंत्रिण्याम् अम्लवस्तुनि यथा पुनरपि मधुररसबुभुक्षवाम्लवस्तुविषये इच्छा तद्रल्लोकोत्तरस्त्रीथेष्टर्काढाभिरुद्वेजितस्य तव शकुन्तलायां प्रार्थनेति भावः । तं खु इत्यादि ॥ भवतोऽपीत्यनेन "रत्नहारी तु पार्थिवः" इति न्यायेन लोकोत्तरस्त्रियः राज्ञ एव विद्यन्ते तासु क्रीडितस्य भवतोऽपीति यावत् । वयस्येति ॥ बहुना तस्याः सौंदर्यादिविषये उक्तेनेति



  1. भो वअस्य (भो वयस्य) इ० पा० ।
  2. येन त्वमेव इ० पा०।
  3. जं एव्वं (यदेवं) इ० पा० ।