पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
(१४७)
टीकाद्वयसहितम्।

 विदूषकः-धंसदु दे उच्छाहवुत्तन्तो[१] । [ध्वंसत व उत्साहवृत्तान्तः]

(निष्क्रान्तः सेनापतिः)

 राजा--(परिजनं विलोक्य) अपनयन्तु भवत्यो मृगयवेशम् । रैवतक, त्वमपि स्वं नियोगमशून्यं कुरु ।
 परिज[२]नः- जं देवो आणवेद । (इति निष्क्रान्तः) [यद्देव आज्ञापयति]
 विदूषकः--कदं भवदा[३] णिम्मच्छिअं । संपदं एदस्सिं पादवच्छाआए विरा[४]इदलदाविणदंसणीआए आसणे णिसीददु भवं, जाव अहं वि सुहासीण होमि । [कृतं भवता निर्मक्षिकम् । सांप्रतमेतस्यां पादपच्छायायां विरचितलतावितानदर्शनीयायामासने निषीदतु भवान्, यावदहमपि सुखासीनो भवामि]
 राजा--गच्छाग्रतः।
 विदूषकः--[५]एदु भवं । [एतु भवान्]

(इत्युभौ परिक्रम्यौपावष्टौ)

 राजा--माढव्य, अनवाप्तचक्षुःफलोऽसि । येन त्वया दर्शनीयं न दृष्टम् ।


यद्देव आज्ञापयति । कृतं भवता निर्मक्षिकम् । जनराहित्यभियर्थः । सांप्रतमेतस्यां पादपच्छायायां विरचितेन लतावितानेन वील्लीचन्द्रातपेन दृर्शनीयायां रमणीयायामसने निषीदतु भवान्, यावदहमपि सुखासीनो भवामि । अहं तु कण्डितसंधित्वेन क्षणमप्युवेशनं विना स्थातुं न शक्नोमि । तवोपवेशनेन विना मम तदत्यन्तमनुचितमिति शीघ्रमुपविशेति भावः । एतु भवान् । 'राजा-माढव्य, अन-


तत्करवाणीति शेषः ॥ अपनयन्त्विति । भवत्य इति । पारिसरवर्तिन्यो यवनिका उच्यन्ते । मृगयावेषं मृगयार्थं कल्पितं हरीतकंचुकादिकम् । किदमिति । कृतं भवतेदानीं निर्मक्षिकं विविक्तं कृतमित्यर्थः । माढव्येत्यादि । अनवाप्तमलब्धं चक्षुःफलं दर्शनीय-


  1. गच्छ दासीए उत्त (गच्छ दास्याः पुत्र) इत्य० क्क० पु० ।
  2. प्रतिहारी इ० पा० ।
  3. दाणिं (इदानीं) इत्यधिकं क्क० पु० ।
  4. अविरळ (अविरल) इ० पा० ।
  5. एद् एद् (एत्वेतु) इ० पा० ।