पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(१४६)
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।

 सेनापतेः-यदाज्ञापयति स्वामी ।


शान्तिरैव प्रधानं येषां तेष्वत एव तप एव धनं येषां तेषु । दाहजनकलक्षणया दाहस्वभावं शीघ्रकार्यकारित्वफलम् । गूढं गुप्तम् । अन्यजनादृश्यं तेजोऽस्ति । हि यस्मात्स्पर्शोनुकूलो येषां पदादिनाशकत्वात्ते सूर्यवत्कान्ता मनोहरास्ते तपस्विनः । अन्यस्य राजादेस्तेजसाभिभवः पराभवस्तस्मात्तत्स्त्रीयं तेजो वमन्ति प्रकटयन्ति । क इव । स्पर्शे सत्यदाहकाः सूर्यकान्ताः पाषाणाविशेषा यथान्यस्य सूर्यस्य तेजसोऽभितो भवो भवनं प्राप्तिः संबन्ध इति यावत् । तेन स्वकीयं तेजः प्रकटयन्ति तथेत्यर्थः श्लेषोपमा । अनुमानं काव्यलिङ्ग च । धानेधने स्तिस्य तेजस्तेज इति छेकश्रुत्यनुप्रासौ । इन्द्रवज्रोपेन्द्रवज्रयोर्भवमुपजातिवृत्तम् । अत्र वमन्तीत्यश्लीलशंका न कार्या । यत्र स्ववाच्ये गन्तशब्दः प्रयुज्यते तत्र दोषः । 'तेऽन्यैर्दान्त समश्रन्ति' इत्यत्रोद्गिरणसंबन्धात्प्राकट्यं लक्षयंस्तस्यावश्यकत्वं प्राकट्ये चोपायसहस्त्रैरप्यप्रतीकार्यत्वमन्यविलक्षणत्वादिधर्मसहस्त्रं ध्वनति । यथा 'वमद्भिरिवेक्षणेः' इत्यादिषु । तदुक्तं काव्यादर्श -- 'निष्ठ्यूतोर्द्गीणीवान्तादिगौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥ 'इत्येतदपि तथैवोक्तेः । ध्वंसतां त उत्साहवृत्तान्तः । स्वं नियोगं द्वारास्थितिरूपम् ।


प्रकाशं दाहात्मकं दहनशीलम् । न तु परोक्षानर्थकारी किन्तु सद्यः प्रत्यक्षत एव नाशकरमिति भावः । अस्ति विद्यते वर्तमानव्यपदेशेन क्रियाकरणे सामभ्यंतरापेक्षा तपोधनानां नास्तीति व्यज्यते । तेजः प्रभावः महान्तस्तु दांभिका न भवन्तीति भावः । अत्र दृष्ठान्तमाह स्पर्शानुकूला इति । स्पर्शानुकूलाः स्पर्शे अनुगुणाः सुस्पर्श इति यावत् । सूर्यकान्ताः शिलाविशेषाः अन्यतेजोऽभिभवात्तेजोन्तरतिरस्कारत । तपोधनपक्षे अन्येषां तेजो बलं सूर्यकान्तपक्षे सूर्यातपतिरस्कारः । यत्तेजो दाहात्मकं सतेज इति यावत् । वमन्ति उद्गिरन्ति । तथ हि द्विविधो यत्तदोरुपक्रमोपसंहारक्रमः शाब्दः आर्थश्चेति । तत्र द्वयोरुपादाने शाब्दः एकतरोपादाने आर्थः द्वयोरनुपादानेऽप्यार्थ इति चतुर्थः । अत्र तपेधनमाहात्म्यवर्णंनव्याजेन राज्ञा शकुन्तलाया वलादाहरणं न कार्यमिति विचरितमिति भावः । वलादाहरणे सद्य एव सर्वानर्थकारी शापो भवेदिति व्यज्यते । अत्र दृष्टान्तालंकारः तदुक्तम्-"सपक्षे दर्शनं हेतोर्द्दष्टान्तः साध्यसिद्धये" इति । अत्र तपोधनेषु गूढदाहात्मकतेजस्सद्भावे साध्ये तत्साधकस्यान्यतेजातिरस्कारजनिततेजस्समुद्रररूपस्य हेतोः सूर्यकान्तेषु दर्शितत्वादृष्टान्तः । यदित्यादि । यदाज्ञापयति