पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
(१४५)
टीकाद्वयसहितम्।

 सेनापतिः--यत्प्रभविष्णवे रोचते ।
 राजा--तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न[१] मे सैनिकास्तपोवनमुपरु[२]न्धन्ति तथा निषेद्धव्याः । पश्य ।

शमप्रधानेषु तपोधनेषु
 गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूलु इव सूर्यकान्ता-
 स्तदन्यतेजोऽभिभवद्धमन्ति ॥ ७ ॥


तेष्वेव विशेषमाधतुमचं नान्यत्र । तेनायथास्थाननिवेशिनो हितेऽथीन्तरमनभिमतमेव स्वोपरागेण रञ्जयेयुः ततश्च प्रस्तुतार्थस्यासामञ्जस्य प्रसङ्गात्तद्दूषकत्वम् । बहिरङ्गं तु व्यवहितमपि स्वां शक्तिं विशेष्योपदधात्येवेति । तदुक्तं महिमभट्टन-- 'विशेषणं हि द्विविधमान्तरं बाह्यमेव च । तत्राव्यवहितं सद्यदर्थकारे तदान्तरम् ॥ स्फटिकस्येव लाक्षादि द्वितीयमुभयात्मकम् । आयस्येव त्वयस्कान्तं तदपि द्विविधं मतम् ॥ असमानसमानाधिकरणत्वविभेदतः । विशेषोऽपि द्विधा ज्ञेयो धातूनामार्थभेदतः ॥ साध्यत्वार्थत्वभेदेन नाम्नोऽर्थेऽपि द्विधा मतः । तत्रोपसर्गाणां प्रायो धात्वर्थे विषयो मतः ॥ चादीनां तु निपातानामुभयं परिकीर्तितम् । केवलं तु विशेष्यात्स्युः पूर्वं पश्चाञ्च ते क्रमात् ॥ विशेषणानामन्येषां पौर्वापर्यमतन्त्रितम् । अतएव व्यवहितैर्युधा नेच्छन्ति चादिभिः ॥ संबन्धं ते हि शक्तिं स्वामुपदध्युरनन्तराः । सान्तरत्वे तु तां शक्तिमन्यत्रोपद्धत्यमी ॥ ततश्चार्थासामञ्जस्यादनौचित्यं प्रसज्यते ॥ 'इति । किंच । रसप्रतीतिव्याहतिकृत्त्वं दोषत्वम् । न चात्र तदस्ति । सहृदयहृदयानां तत्प्रतीतेरव्याहतत्वात् । तथाह्यत्राभिलाषविप्रलम्भ एतत्प्रकरणव्यङ्गयस्ततृतयानुस्मृत्यवस्थायाः कार्यानुत्साहलक्षणस्यानुभावस्यातिस्फुटस्यात् । 'विश्रामम्' इत्यपाणिनीयः पाठः । 'विश्रान्तिम्' इति पठनीयम् । प्रभवति, तच्छीलः प्रभविष्णुस्तस्मै राज्ञे । 'भुवश्च' इतीष्णुच् । शमेति । शमः


घनजघनस्तनमंडलभरालसगामिननां च ॥" इति । यदित्यादि । वनग्राहिण: वनावरिधकान् वागुरिकानित्यर्थः । निवर्तय प्रत्यावर्तय । निषेद्धव्या निवारणयाः निषेधे कारणमाह पश्येत्यादिना । शमः शान्तिः प्रधानं मुख्यो गुणो येषां ते तथोक्ताः तेषु गृढम-


  1. च इ० पा० ।
  2. दूरात्परिहरिष्यन्ति इ० पा० ।