पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४२ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


 विदूषकः-अत्तभवं पकिदिं आपण्णो । तुमं दाव अडवीदो अडवीं आहिण्डन्तो णरणासिआलोलुवस्स जिण्णरिच्छस्स कस्सवि मुहे पडिस्ससि । [ अत्रभवान्प्रकृतिमापन्नः । त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णऋक्षस्य कस्यापि मुखें पतिष्यसि ।
 राजा–भद्र सेनापते, आश्रमसंनिकृष्टे स्थिताः स्मः। अतस्ते वचो नाभिनन्दामि । अद्य तावत् ।

गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्धं क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ।। ६ ।।


यत्र तद्दाक्षिण्यमितीरितम् ' इति । अत्रभवान्प्रकृतिं स्वभावमापन्नः प्राप्तः । त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्येति स्वभावोक्तिः । जीर्णऋक्षस्य वृद्धभल्लूकस्य कस्यापि मुखे पतसि पतिष्यसि । ‘ आशंसायां भूतवच्च ’ इति ' चकाराद्वर्तमानवच्च ’ इत्याशंसायां वर्तमानवत्प्रत्ययः । अद्य तावदिति श्लोकशेषः । गाहन्तामिति । महिषाः शृङ्गैर्मुहुर्वारंवारं ताडितमुत्फालितं निपानसलिलमाहावजलं


दुष्यन्तस्य मृगयाव्यसनस्य विरुद्धगुणत्वेन विदूषकस्यानभिमतत्वान्निष्टूरेणापि मधुरवचनेनोपन्यासेन मृगयागुणो वर्णित इति गुणातिपातः । किं चानेन श्लोकेन छलं नाम वीथ्यंगमुक्तम् । “ प्रियायैरप्रियैर्वाक्यर्विलोभ्यच्छलनं छलम् ” अत्र राज्ञः शकुन्तलाव्यापारहृतचित्तत्वेन सेनापतेरपि प्रयासबहुल्येन विदूषकेन सह जनान्तिकवचने सखे स्थिरप्रतिज्ञो भवाहं तावदित्यादिना मृगयानिश्चयस्य द्योतितत्वेनोभयोरपि मृगयेच्छां विलोभ्य मृगयास्तवनं छलम् । अत्तभवमित्यादि । प्रकृतिं स्वभावं मृगयाविमुखतामिति यावत् । जीर्णऋक्षस्य वृद्धभल्लूकस्य वृद्धभल्लूकस्तु सर्वगात्राणां मांसलतया लंबमानपक्षरुद्धनेत्रः सन् गमनाशक्तस्तिष्ठति यदि कश्चिद्दैवात्स्वस्मिन्पतितं न परित्यजतीति भावः । भद्रेत्यादि । भद्र सुमुख कोपरहितेति यावत् । अनेन विदूषकेन यत्किंचित्पारुष्यमुक्तं मनसि न कर्तव्यमिति भावः । तु मूर्खस्त्वमुपशांत इति व्यज्यते । अद्येत्यादि । अद्य अत्राहनि तावत् साकल्ये । महिषा निपान


१ आमिक्ष (आमिष ) ३० पा० ) २ किंबहुना इत्यधिकं क० पु• ।

३ ततिभिः ई० पू० । ४ विश्रांतिं इ० पाना ।