पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४० )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


( उपेत्य | ) जयतु स्वामी । गृहीतिश्वापदमरण्यम् । किमन्यत्रादस्थीयते ।
 राजा-मंन्दोत्साहः कृतोऽस्मि मृगयापवादिना माढव्येन ।
 सेनपतिः -( जनान्तिकम् ) सखे, स्थिरप्रतिवन्धो भव । अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये । ( प्रकाशम् ) प्रलपत्वेष वैधवेयः । ननु प्रभुरेव निदर्शनम्।


वीथ्यङ्गं मृदवं नामोपक्षिप्तम् । तल्लक्षणम् -- दोषा गुण गुणा दोषा यत्र स्युर्मृदवं हेि तत् ’ इति । यद्यप्येषामानुरथा ( न्युग्वा, नुषा ) ङ्गममुक्तं तथाप्यभिनवभाग्त्यामाचार्याभिनवगुप्तपादैः प्रश्रमसंध्युपलक्षणत्वं द्वादशानामुक्तम् । तथैवोदाहृतं धनिकेन । अत एव च त्रिगतलक्षणे धनिकः--‘ नटादित्रितयालापः पूर्वरङ्गे तदिष्यते ? इति योज्यम् । क्वचित् ‘ किमत्रवस्थीयते ’ इति पाठः । क्वचित् 'किमन्यदवस्थीयते ' इति पाठः । तदैकवाक्यम् ! सद्य किमवसन्नं कर्तव्यम् । किमप्यस्तीत्यर्थः । मन्दोत्साह इति । अर्थान्मृगयायाम् । मृगयापवादिनाखेटकनिन्दकेन । “ अपवादौ तु निन्दाज्ञे ’ इत्यमरः । माढव्येन विदूषकेण । स्थिरः प्रतिवन्धो मृगयाप्रतिबन्धो यस्य सः । क्वचित् 'वैधेयः' इति पाठः । स श्रेयान् । मूर्ख इत्यर्थः । 'अज्ञे मूढयथाजातमूर्ख वैधेयवालिशाः ’ इत्यमरः । तेनायमर्थः । असौ मूर्खः प्रलपतु । मृगयापवादं वदुत्वित्यर्थः । ननु प्रभुरेव निदर्शनम् । मृगयागुणवत्वे ‘ अनवरत-“ इति पूर्वमुक्तेस्तमे-


देवस्येदानीमत्रावस्थानं युक्तमिति भावः । निगृहीतेत्यादि । निगृहीतश्वापदं निरुद्धशरभादिसंचारं मृगयापवादिना मृगयामपवदते दोषामुक्त्वा दूषयन्तीति न तथोक्तः । शीलार्थप्रत्ययेन सावेंकालिकमृगयानिंदा व्यज्यते । माढव्य इति विदूषकस्य नाम प्रलपतु गुणानभिज्ञतया यद्वा तद्वा जल्पतु । वैधेयः अज्ञ्ः “ अज्ञे मृढयथाजातमूर्ख-


१ निगृहीतश्वापदप्रचारमरण्यमिदम् इ० पा० ॥ २१ किमद्यापि स्थीयते इ० पा० ।

३ सैनापते भग्नोत्साहः इ० प० । ४ वैधेयः इ० पा० ।