पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( १३९ )
टीकाद्वयसहितम्।


इत हैमः ।’ सारो बले स्थिरांशे च' इत्यमरः । गात्रं वपुर्बिभर्ति । 'गात्रं वपुः संहननम्' इत्यमरः । गिरिचरपदेन स्वातन्त्र्यं सूचितम् । कीदृक् । अनवरतं निरन्तरं यद्धनुर्ज्ज्यया आस्फालनं तेन क्रूरः कठिनः पूर्वः पूर्वभागो यस्य तत् । क्रूरं भयंकरं ज्ञेयं क्रूरौ कठिननिर्भयो ' इति धराणिः । अनेन दनुजास्त्रप्रहारक्षमं बलं ध्वन्यते । रविकिरणसाहिष्णु आतपेऽप्यक्लान्तमित्यर्थः । अनेन दुःखसहिष्णुत्वम् । स्वैदलेशैरभिन्नम् । स्वेदैस्तु न मित्रं तल्लेशैरपि न संबद्धमित्यर्थः । अनेन श्रमजयित्वम् । अपचितं कुशमपि व्यायतत्वात्प्रक्राण्डत्वादललक्ष्यम् । कुशत्वेन न लक्ष्यत । इत्यर्थः । अनेन महापुरुषचिन्हं शालप्रांशुत्वादि । हस्तिगात्रपक्षेऽपि विशेषणानि योज्यानि । अनवरतं धनुर्ज्यायां प्रियालद्रुमभूमौ यदास्फालनमर्थात्प्रियालद्रुमाणामेव तेन कठिनपूर्वभागम् ॥ 'धनुःसंज्ञा प्रियालद्रौ राशिभेदे शरासने ? इति विश्वः । 'ज्या मौर्वी च वसुंधरा ? इति धरणिः । अन्यानेि बिशेषणानि स्पष्टानि । र्वरवीति णसणसिते छेकवृत्तिश्रुप्यनुप्रासाः । परिकरालंकारः । श्लेष उपमा च मालिनीवृत्तम् । ननु धनुर्ज्याशब्देनैव गतार्थत्वार्थपौनरुक्त्यमिति चेन्न । ‘ धनुर्ज्याध्वनौ धनुःप्रतिरारूढे प्रतिपत्यै ( ? ) ' इति वामनोक्तेः । आरूढप्रतीतिराम्फालनशब्देनैव जातेति दोषस्तदवस्थ एवेति चेन्न । भिन्नपदेन व्याख्यानात् । कीदृग्गात्रम् । न नवमनवं रतं सxx धनुर्यत्र तत् । सर्वदासन्नधनुरित्यर्थः । द्वितीयेऽनवं च तत्संबद्धप्रियाल चेतेि ग्रोज्यम् । शिखरिचरकरीव प्राणसारम् ? इति पठित्वा प्रयोगनियमभंगः परिहर्तव्यः । यतस्त इवादयो यत्पुरः श्रूयन्ते तस्यैवोपमानत्वं कल्पयन्ति । अथवा विशेषणाप्रयुक्ता नोपमानशुद्धिं तत्र जनयन्यसंभवात् । ततो विशेष्य एव पर्यवसानादिति यथास्थितमेव चारु । एतच्चोपमानप्रपञ्चे मया निरूपितम् । अनेन पद्येनाग्रिमेण 'भेदः' इत्यादिना च


तथा चेन्द्राज्ञोऽनवरतधनुर्ज्यांस्फालनाभावात् । तथैवाहं रविकिरणसाहिष्ण्विति । सूर्यातपसहनशीलम् अनेन राज्ञ एकाकितया बहुदेशभ्रमणं व्यज्यते छत्रधारकोऽपि नास्तीत्यर्थः । छत्रधारणसद्भावे रविकिरणस्पर्शाभावात् । स्वेदलेशैरभिन्नम् असक्तम् अपचितमपि कृशमपि व्यायतत्वादृढत्वात् । “ व्यायतो दीर्घदृढयोः " इति चैजयंतीं । अलक्षं लघुप्राणमारं प्राणस्य शक्तेः सारं स्थिरांशम् । " सारो बले स्थिरांशे च न्याय्ये क्लीबे वरे त्रिषु " इत्यमरः । नागो गजः देवो विभनीति संबंधः । मृगयाकर्माणि परिश्रांतस्य