पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १३६ )
[द्वितीयः
अभिज्ञानशाकुन्तलम् ।


न नमयितुमधिज्यमस्मि शक्तो
धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः
कृत इव मुग्धविलोकितोपदेशः ॥ ३ ॥


तामित्येव ब्रूयात् मृगयायां विक्लवं विह्वलम् । विरक्तमिति यावत् । अथ च मृगयेति स्त्रीलिङ्गनिर्देशाद्रन्थाङ्गनासक्तो पूर्वाङ्गनायां विरक्तत्वमुचितमिति दर्शितम् । न नमयितुमिति । तेषु मृगेषु भृगविषयेऽधिज्यमारोपितज्यमाहितसायकं संधितबाणमिदं प्रत्यक्षेण परिदृश्यमानं धनुर्नमयितुं कर्णान्तमाक्रष्टुं न शक्तोऽस्मि । त्रयमपि विधेयम् ! अत एव नार्थपौनरुक्त्यम् । यैमृणैः सह वसतिमेकत्रवासमेत्य प्राप्य प्रियायाः शकुन्तलाया मुग्धानेि स्वभावसुन्दराणि । अथ च बालत्वाब्रह्मचारित्वाच्चानधिगतहावभावानि । विलोकितानि विलोकनानि तेषामुपदेशः कृत इवेत्युत्प्रक्षा | अज्ञातज्ञापनमुपदेशः । सामान्यविशेषणसंबन्धेन बिशेषं लक्षयन्ननायासेन तत्प्रतिपत्तिं ध्वनति । उत्तरार्धार्थस्य शक्त्यभावे हेतुत्वेनोपात्तत्वात्काव्यलिङ्गम् । एतयोरङ्गाङ्गिभावः संकरः । अत्र चेतोविक्लवत्वे कारणे प्रस्तुते तत्कार्यस्य धनुरानमनादेरुक्तत्वात्पर्यायेणोक्तम् । नाप्रस्तुतप्रशंसा | यतोऽत्र कारणवत्कार्यमपि प्रकृतमेव । तद्वर्णनमात्रत्वेनाप्रस्तुतस्यैव कार्यस्य वर्णनमिति महान्भेदः। वृत्यनुप्रासेन सह श्रुत्यनुप्रासस्य संसृष्टिः । नकारादीनां पोडशवर्णानां दन्त्यानां सत्वात्वृत्यनुप्रासः । पुष्पिताग्रा वृत्तम् ? एवमत्माभिप्राय- इयादिनैतद्न्तेनानुस्मृतिस्तृतीयावस्था सूचिता । तल्लक्षणं तु-- अर्थानमनुभूतानां देशकालानुवर्तिनाम् । सातत्येन परामर्श मानसः स्यादतुस्मृति । तत्रानुभावे निःश्वसः


कस्मात्कारणात् इत्याशंक्याह- न नमयतुमित्यादि । अधिज्यमिदं धनुः मृगेषु मृगविषये आहितसायकं कृत्वा नमयितुं न शक्तोऽस्मीति विशिष्टनिषेधः । अन्यथा आहितसायकत्वेनैव नमनसिद्धेर्नमनमात्रनिषेधो विरुद्धः स्यात् । यैर्मृगैः प्रियायाः मुग्धमनेहरविलोकितोपदेशः कृतः । उपदेशकरणे कारणं सहवसतिमुपेत्येति । अन्यथा वनवृत्तिभिमृगैर्नगरावास्थिताया युवत्या उपदेशासंभवात् । कृत इति न तु साक्षात्