पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १३५ )
टीकाद्वयसहितम्।


 राजा–नदीवेगस्तत्र कारणम् ।
 विदूषकः-मम वि भवं । [ ममापि भवान् |
 राजा-कथमिव |
 विदूषकः-एव्वं राअकज्जाणि उज्झिअ तारिसे आउलप्पदेसे वणचरवुत्तिणा तुए होदव्वं । जं सच्चं पच्चहं सावदसमुच्छारणेहिं संखोहिअसंधिबन्धाणं मम गत्साणं अणीसो हि संवुनो । ता पसादइस्सं विसज्जिदुं मं एक्काहं वि दाव विस्समिदुं ! [एवं राजकार्याण्युज्झित्वा तादृश' आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः तप्रसादयिष्यामि विसर्जितुं मामे काहमपि तावद्विश्रमितुम् ।
 राजा -( स्वगतम् ) अयं चैवमाह । ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः । कुतः।


मताक्षेपानुज्ञैषणापृष्ठप्रतिवचनेषु ’ इति दण्डनाथः । एतेन त्वयैवेदं कृतमिति भावः । दृष्टान्ताटंकारः में प्रकृते निगमयति--एवमितेि । एवं राजकार्याण्युज्झित्वा तादृशं मनुष्यदुःसंचार आकुलप्रदेशे श्वापदाकुलस्थाने वनचरवृतिना त्वया भवितव्यम् । अद्याप्याखेटापरित्यागादिति भावः । यत्सत्यं प्रत्यहं श्वपदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणामहमनीशः संवृत्तोऽस्मि ? मम गात्राणि ममैव न भवन्तीत्यर्थः । यद्यस्मात्सत्यं संवृत्तोऽस्मीति संबन्धः । ता तस्मात् ।‘ सौरसेन्याम् ’ इत्यनुवृत्तौ “ तस्मात्ता ? इतेि सूत्रेण ताआदेश में प्रसादयिष्यामि विसर्जितुं मामेकाहमपि तावद्विश्रमितुम् । कश्यपसुतां शकुन्तलाम् । अनेन किमप्यभिजात्यं ध्वनति । तथा


प्रश्ने । उतेति पक्षान्तरे अपि प्रभावेनेत्यनुवर्तनयं स्वस्यानिष्टं स्वयं कथं संपादयेत् किं तु त्वत्रिमित्तक एव खस्य दुःखानुभव इति भावः कथामिवेति प्रश्ने । मन्निमित्तको दुःखानुभवः कथमिवेति यावत् । वयस्य इत्यादि । मृगयाविक्लवं मृगयाविमुखम्। अगुस्मृत्य तस्या दीर्घापांगकटाक्षविशेषादीन् सदृशवस्तुदर्शनान्मुहुः स्मृत्वा । कुतः


१ आत्मगतं इ० य।० ।