पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १३४ )
[द्वितीयः
अभिज्ञानशाकुन्तलम् ।


तमिति विशिष्ट विधेयम ? साभिलाषं व्याजावलोकनं कृतमिति भावः । स्निग्धदृष्टिलक्षणं यथा--. विकाशिस्निग्धमधुरा चतुर बिभ्रती भ्रुवौ । कटाक्षिणी साभिलाषा दृष्टिः स्निग्धाभिधीयते । ’ इति । नितम्बयोर्गुरुतया विलासादिव यच्च मन्दं यातम् । विलम्वो भवत्विति भावः । नितंबयोरिति द्विवचनेन मध्यनिम्नतागौरवाधेिक्यं यौवनोज्जृम्भणं च ध्वनितम । मा गा इत्युपरुध्दया तया सातिप्रियतरा हृदयरूपा सखी विलासादिव यद्यपि सासूयं सेष्य्रमुक्ता ! तत्र स्थित्यर्थमिति भावः । अपिः समुच्चयार्थे!

 सर्व स्निग्धवीक्षणमन्दगमनसेष्य्र्वचनादि मत्परायणम् । 
व्याख्यातप्रकारणेर्थान्तरन्यासमाहृ--अहो आश्च्रर्ये । कामी स्वतामत्मीयतां
सर्वत्र स्वाभिप्रायरूपतां पश्यतीत्यर्थ: ।   स्वो ज्ञातावात्मानेि

स्वं त्रिष्वात्मीये स्वंऽस्त्रियां धत्ते ! ' इत्यमरः । विलासादिवेत्युत्प्रेक्षा! तेन संभाव्यमानत्वात् । विलासलक्षणं तु -- यो वल्लभासन्नगते. विकारो गत्यासनस्थानविलोकनादौ ? इत्यादि पूर्वोक्तमेव । मध्य कारकदीपकालंकार: ! हेतुस्वभावोक्ती च । नयनेयएत यत्न्यायातपरमार्थतामाह

--मनत्परायणं किलेति । अन्यतः स्वाभिलषितप्रियजनादन्यत्र । नयने प्रेषयंल्या या यस्त्रिग्धं वीक्षितं स्वानुरागप्रकाशिकं सुकुमारं वीक्षितम् । नायिकाया नायिकविषये एव स्निग्धा दृष्टिरनुरागव्यंजिका । तदुक्तम् भरतेन -‘‘ श्रृंगारे रसदृष्टिस्तु कान्ता भवति । स्थायिभावद्दष्टिस्तु स्निग्धा भवति। एतयोलर्क्षणं तु " हर्षप्रसाद जनिता कान्तेत्यर्थं समुन्नता । सभ्रूक्षेपकटाक्षा च श्रृंगारे दृष्टिरिष्यते । व्याकोचमध्या मधुर स्थितताराभिलाषिणी । सा नतभ्रूकृतादृष्टिः : स्निग्धेयं रतिभावजा ॥ एतयोरभिप्रायस्तु

चिन्त्यते हर्षप्रसादजनितेति । विकासिततिनिर्मलशुक्लमंगला या सा 
। कान्तेति लक्ष्यपदनिर्देशः ।सभ्रूक्षेपकटाक्षेति ।  भ्रुवोरुन्नतिरुत्क्षेप: नरकास्त्र

दृष्टिमंडलस्य विचित्रतया गतागतेन विश्रात्न्यनुवर्तने कटाक्षः । स्निग्धयां रतिभावदृष्टावप्ययमेव प्रकारः । किन्तु अनुल्वणत्वं तत्र विशेषः । अत्यथर्थसंमतेति वा पाठः । इयं रसदृष्टिरंतर्गतचित्तवृत्तिव्यंजिका । अन्यथा परबुद्धेप्रत्यक्षत्वेनानुरागस्य दुरधिगमत्वात्। व्याकोचमध्या स्नेहमुधुरतया किंचित् फुल्ला । मधुरा मनोहरा । स्थिततारा किंचित्कट- क्षान्विता अभिलाषिणी साभिलाषा। सा नतभ्रूकृतेति । एकस्या भ्रव् उत्क्षेपवती तदुक्तम् - कोपस्वभावा भावेषु लीलायां बिभ्रमेषु च । दर्शने श्रवणे चैव ध्रुवमेको विनिक्षिपेत् ॥“ इनि । भावावस्थायां स्निग्धा दृष्टिः । अत एव माधुर्यमस्या: सिद्धम् । कांताद्या ह्यष्टौ रसद्ष्ट्य: स्निग्धाया: स्थायिभावदृष्टयोऽप्य्ष्टौ । शून्याद्या व्यभिचारदृष्टयो विंशतिः । आहृत्य षटत्रिंशदृष्टय: । दृष्टीनामनंतत्वान्नव्यप्रयोगानुगुण्येन मुनिना त्वेता