पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १२७ )
टीकाद्वयसहितम्।

संपदं णअरगमणस्स मणं कहं वि ण करोदि । अज्ज वि से तं एव्व चिन्सअन्तस्स अक्स्वीसु षभादं आसि । का गदी । जाव णं किदाचारपरिक्कमं पेक्खामि । ( इते परिक्रम्यावलोक्य च । ) एसो वाणासणहृत्थाहिं जहणहिं वणपुष्फमालाधारिणीहिं पडिवुदो इदो एवआआच्छदि पिअवअस्सो । होदु । [ सांप्रतं नगरगमनस्य मनः कथमपि न करोति । अद्यापि तस्य तमेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः। यावत् कृत्ताचारपरिक्रमं पश्यामि । एष बाणासनहस्ताभिर्भवनीभिर्वनपुष्पमालधारिणीभिः परिवृत इत एवगच्छति प्रियवयस्यः । भवतु |


न्याम् ’ इति तस्य दुः । तेन “ तत्तहोदो ते इते सिद्धम् । सांप्रतं नगरगमनम्य नगरगमनाय । 'चतुर्थ्या पष्ठी इति पृष्ठी । मनः कथमपि न करोति । अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णो प्रभातमासीत् । चिन्तनेन सुखम् निद्राच्छेदेन दुःखमिति । अनेन विधानं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु --‘ सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् ? इति । का गदी का गतिः । यावत्तं कृताचारपरिक्रमं कृल आचारस्य स्नानादेः परितः क्रमो येन तं पश्यामि । एष चाणासनं धनुर्हस्ते यासां ताभिर्वनपुष्पमालाधारिणीभिरिते मृगयावेमसूचनम् । यवनीभिः परिवृत इत एवागच्छति प्रियवयस्यः प्रियसखः । वक्रादावन्तः ’ इति सूत्रेणानुस्वारागमे “ वयस्य ’ इति रूपम् । बहुला


त्वस्याधन्यतैव हेतुरिति भावः । एवं शकुन्तवृत्तान्तकथनेन पूर्वेद्यु रात्रौं विदूषकस्याग्रतः शकुन्तलावृत्तातादिकं राज्ञा किंचित् प्रसंजितमित्यवगंतव्यं तथैत्र वदिष्यत्युतरत्र तामेवाधमललामभूतामित्यादि अधन्यताफलमाहसम्पदमित्यादिना । सप्रतमिति राज्ञा शकुन्तलायां दृष्ट्यामित्यर्थः । अक्ष्णोः प्रभातमासीदित्यनेनानिदुःखानुभवेनाक्षिनिमीलनाभावो द्योत्यते । अक्ष्णोन्मीलतोः सतोः प्रभातमासीदित्यर्थः । का गतिः का वा मतिः इतःपरं यथा मृगगयागमनमत्रावस्थानं च न संभवेत्तादृशतात्कालिकमतिः केत्याक्षेपे । अतिदुःखानुभवेन बुद्धिक्षोभो जात इति भावः । “ गतिः परायणे गीतिमार्गे च गमने मतौ " इति विश्वः । इन एवागच्छतीत्यनेनैवकारेण विदूधूकस्य पुनरपि मृगयागमनदुःखं द्योत्यते । यवनीशब्देन राज्ञः शत्रधारिण्यः उच्यन्ते । तदुक्तं शृच्दार्णवे- किराती चमरधरा यवनी शत्रधारिणी " इति । होदु


१ एव सविषेमं (एवं सविषेषं) इ० पा०।२ वअस्सं (वयस्यं) इ० पा०।

१ एव सविशेमं ( एव सविशेषं ) इ० पा०।१ वअस्सी ( वयस्यम् ) ई० पू० ।