पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१३४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ११९ )
टीकाद्वयसहितम्।


( सर्व उत्तिष्ठन्ति )

सख्यौ-अज्ज, असंभाविदआदिहिसक्कारं भूओ वि पेक्खण

णिमित्तं लज्जेमो अजं विण्णविदुं । [ आर्य, असंभावितातिथि सत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जावह आर्ये विज्ञापयितुम् ?

राजा--मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।

( शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता )

राजा--मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यथावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि

शकुन्तलाव्यापारादात्मानं निवर्तयितुम् । मम हि


भूयोऽपि प्रेक्षणनिमित्तं लज्जावह आर्य विज्ञापयितुम् । पुरस्कृतः पूजितः । “ पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते " इत्यमरः । सव्याजं विलम्ब्येत्यनेन सखीद्वयं पूर्वं निष्क्रान्तं स्वयं च पश्चात् । इत्यनेन प्र [ ति ] मुखमंधावुच्यमानम् 'दर्भांकुरेण' इत्यादि


द्वितीयेंऽके राघवभार्गवयोर्धाराधिरूढे वीररसे कंकणमेव नावगच्छामीति राघवस्योक्तौ । अंगस्वाप्रधानस्यानिविस्तरेण वर्णनं यथा हयग्रीवविजये प्रतिनायकस्य हयग्रीवस्यैव बहुधा विजयवर्णनं कृतम् । अंगिनोरननुसंधानं यथा रत्नावल्यां चतुर्थेंsके वाभ्रत्यागमने सागरिकाया विस्मृतिः ईदृशा इति नाचिकापादप्रहारादिना नायकस्य कोपादिवर्णनम् । प्रकृतिविपर्ययस्तु अदिव्यानां समुद्रोल्लंघनादिः तत्र रतिह्रासशोकाद्भुतानि अदिव्योत्तमप्रकृतिवहिव्येष्वपि वर्णनीयानि । तथापि रतिस्तु संभोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यंतानुचितं स्यात् । अदिव्यानाम् यावदपदानं प्रसिद्धमुचितं तावदेव वर्णनीयं अन्यथा असत्यवृद्धिजनकत्वेन कान्तासंमितहितोपदेशतां विघटयत्काव्यमेव परित्याज्यं स्यात् । अज्जेत्यादि भूयोऽपीत्यनेनैतः परं पुनर्दर्शने सर्वाप्सितसिद्धिर्भविष्यतीति भावः । मदोत्सुकोऽस्मि निराशो भवामि अनेन सर्वकार्यानुस्साह उक्तः । शकुन्तलाव्यापागत. शकुन्तलाया अकृत्रिममनोहरस्वविषयकचेष्टाविशेषात् आत्मानं चित्तं निवर्तयितुं स्ववशगमपि प्रत्यावर्तयितुं न शक्नोमि । अनेन चित्तस्य परवशत्वकथनेनांतरिंद्रियस्य पारवश्यमुक्तम् । तत्सहकारितया प्रवृत्तिनिवृत्तिकरान्येंद्रियाणां स्वव


१ सत्कृतोऽस्मि इ० पा० । २ मंदोत्सुकोऽस्मि इ० पा० । ३ प्रत्यवेक्ष्य इ० पा० ।