पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१३१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ११६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


अपिच |

तीव्राघातप्रतिहततरुः स्कन्धलग्नैकदन्तः
पदाकृष्टव्रततिवलयासङ्गसंजातपाशः
मृर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥ ३२ ॥


सन्नत्वमवश्यं वक्तव्यं तद्वत्कार्यस्यावश्यकत्वाभावात् । पयीयोक्ते तु कारणवत्कार्यमपि प्रकृतमेव । तत्र । कारणापेक्षया तद्वर्णनमतिचमत्करकृदिति स्थितमाकरे । काव्यलिङ्गं च । पुष्पिताग्रा वृत्तम तीव्रेति । स्यन्दनस्य रथस्यावलोकनाद्भीतो गजो धर्मारण्यं प्रविशतीति संबन्धः । कीदृग्गजः तीव्रो य आघातः पलायनविषये स्वाभाविकः संवेगः संघट्टस्तेन प्रतिहता भग्नास्तरवो येन सः । स्कन्धे स्कन्धभागे पार्श्वावलोकनेन लग्न एको दन्तो यस्य सः । तत्र स्कन्धभागो दक्षिणः । दन्तोऽपि दक्षिण इति सांप्रदायिकाः । उक्तं च पालकाव्ये---' दक्षेणं वलितुं शक्तो राजो वामे प्रयत्नतः । इति । अन्ये त्वेकपदत्वेन व्याचक्षते--तीव्रेणाघातेनाघातोद्यमेन प्रतिहतो यस्तरुस्कन्धस्तत्र लग्न एकदन्तो यस्य । यद्वा तीव्रेणोग्रेण क्वचित्कठिने वस्तुन्याघातेन प्रतिहतस्तत उच्छलितः संस्तरुस्कन्धे लग्न एको दन्तो यस्य सः । उभयमपि नातिसमञ्जसम् । अर्थासंगतेः । तथाहि। तरुस्कन्धे भग्नत्वं लग्नत्वं वा। आद्ये भग्नैकदन्त इत्येव पठेत् । द्वितीये प्रविशतीति क्रियया विरोधस्तेन संदानितत्वात् । लग्नदन्तत्वं दन्ताकार आघात इति चेन्न । प्रकृतार्थपोषाभावात् । अथ तत्त्वत एकंदन्त


त्वामिति ज्ञेयम् । परिणनारुणस्य सायंतनसूर्यस्य प्रकाशो यस्मिन् स तथोक्तः । अत एव शलभसमूह इव पतंगनिवह इव अनेन सायंकालः समागत इति सूच्यते तेनेतःपरं संभाषणादेरवकाशो नास्तीति सूच्यते । अपि चेति । आर्द्रवल्कलेषु धूलीपननमेका बाधा इदानीं बाधान्तरमपीति भावः । तदेवाह तीव्राघातेत्यादिना । तीव्राघातेन दृढप्रहारेण प्रतिहतः भग्नश्चासौ तरुस्कंधश्च स तथोक्तः तेन लग्नः संसक्तः एको दन्तो थस्य स तथोक्तः । एकं तरुस्कंधमवस्कंधैकस्मिन्दंते निक्षिप्यागच्छतीत्यर्थः । स्वभावोक्तिरलंकारः । मूर्तः मूर्तिमान् । नः अस्माकं नेपथ्य इत्यादिनैतदंतेन चूलिकानामार्थोपक्षेपकमुक्तम् । तदुक्तं कोहलेन । “ अंतर्नेपथ्यस्तैः सूतमागधादिभिः क्रियते । अर्थस्योपक्षेपोऽने


१ व्रजति च इ० प० ।