पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१३०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ११५ )
टीकाद्वयसहितम्।


( नेपथ्ये )

 भो भोस्तपस्विनः, संनिहितास्तपोवनसत्त्वरक्षायै भवेत हैयत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः ।

तुरगखुरहतस्तथा हि रेणु
र्विटपविषक्तजलार्द्रवल्ककेषु ।
पतति परिणतारुणप्रकाशः
शलभसमूह इवाश्रमद्रुमेषु ||३१||

इति । पूर्वोक्तं प्राप्तिलक्षणमङ्गमनेन चोपक्षिप्तम् । प्रकृतकथाविच्छेदार्थ- मन्तरसंधिमुपक्षिपति-नेपथ्य इति । दुष्यन्त इति राजनामश्रवणच्छकुन्तलायाः प्रोत्साहनाद्भेदलक्षणमङ्गमुपक्षिप्तम् । ‘ भेदः प्रोत्साहना मता ’ इति तल्लक्षणस्य धनिकेनोक्तत्त्वात् । प्रत्यासन्न इति यदुक्तं तत्र हेतुं श्लोकाभ्यां दर्शयति-तुरगेति । तथा हि तुरगखुरहतो रेणुराश्नमद्रुमेषु पततीति योजना । कीदृशेषु । विटपेषु शाखासु विषक्तान्यासक्तानि जलार्द्राणि वल्कलानि येषु तेषु । आर्द्रत्वं विषक्तत्वे हेतुः । अनेन विटपेभ्यो वल्कलापसारणं क्रियतामिति ध्वन्यते | तुरगेत्यनेन सेनाया बाहुल्यं ध्वनितम् । इदं च तपोवनसत्त्वरक्षावहितत्व आर्यो हेतुः । आश्रमेत्यनेन निकटत्वं द्रुमेष्विति विशेषणोपादार्थम् । जलग्रहणं तस्मिन्समयेऽप्यशुष्कताभिधानार्थम् । कीदृग्रेणुः, परिणतसायंकालीनो योऽयमरुणः सूर्यस्तद्वत्प्रकाशः स्फुटः । तद्वद्वर्ण इत्यर्थः ।'अरुणोऽस्फुटरागे च सूर्ये सूर्यस्य सारथौ' इति धरणिः। प्रकाशोऽतिप्रसिद्धे स्यास्प्रहासातपयोः स्फुटे ' इति विश्वः । अयमेवोपमायां सामान्यधर्मो ज्ञेयः । क इव । शलभसमूहः पतङ्गनिकर इव । अनया रेणोर्बहुलत्वं घनत्वं च ध्वन्यते । वृत्त्यनुप्रास उपमा च । अत्र पार्थिवप्रत्यासन्नत्वे कारणे प्रस्तुते तत्कार्यं रेणूद्धूलनादिकमुक्तमित्यप्रस्तुतप्रशंसा । न पर्यायोक्तम् । कार्यस्याप्रस्तुतत्वात् । यथात्र राज्ञः प्रत्या-

भो भो इति समंभ्रमाह्वाने द्विरुक्तिः । तपस्विन: हे तापसाः सन्निहिता मिलिताः मृगयाविही मृगयाविहरणशीलः अनेन शीलार्थप्रत्ययेन ग्रीष्मसमये राज्ञो मृगयाविनोदनमुचितमिति द्योत्यते । किलेति वार्तायाम् । " वार्तासंभाव्ययोः किल " इत्यमरः । राज्ञः प्रत्यासन्नत्वे हेतुमाह तुरगेति । जलार्द्रवल्कलेष्वित्यनेन सायंकालस्नानेन वल्कलानामार्द्र


१ भवताम् इ० पा० ।