पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१२८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ११३ )
टीकाद्वयसहितम्।


शकुन्तला-(आत्मगतम् ) जइ अत्तणो पहविस्सं । ( प्रकाशम् )

का तुमं विसज्जिदव्वस्स रुन्धिदव्यस्स वा ।[यद्यात्मनः प्रभविष्यामि। का त्वं विसर्जितव्यस्य रोद्धव्यस्य वा ।

राजा--( शकुन्तलां विलोक्य आत्मगतम् ) किं नु खलु यथा

वयमस्यामेवमियमप्यस्मान्प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः।

वाचं न मेिश्रयति यद्यपि मद्वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ ३० ॥


महाराजेन | गच्छेदानीम् । यद्यात्मनः प्रभविष्यामि । अनेनोद्भेदनामकमङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- ‘ बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः ’ इति । दशरूपके तु-- उद्भेदो गूढभेदनम् ’ इति । गजभावस्य गूढस्योद्भेदनात् । का त्वं विर्जितव्यस्य रोद्धव्यस्य वा । वाचमिति । यद्यपीयं मम वचोभिर्वाचं न मिश्रयति । मया सह न


त्र्यसनाभिभूतजनं पश्यतः उत्तमपुरुषस्य तस्मिन् दयोत्पत्तेः तेन राज्ञ आभिजात्यं सूच्यते अथवा महाराजेनेत्यनेन राज्ञा राजभावः प्रच्छादितोऽपि ताभ्यां ज्ञात इति ओत्यते । स्वराष्ट्रे ये जना ऋणबद्धास्ते सर्वे राज्ञा स्वद्रव्यव्ययेन ऋणान्मुच्यन्ते चेद्राज्ञो महत्फलमिति स्मृतेरिति भावः । इदानीमित्यनेन राज्ञा वृक्षसेचनद्वयऋणात्त्वयि मोचितायां सत्याभित्यर्थः । गच्छ गन्तुम् स्वतंत्रा भव राज्ञा तवोपकारः कृतः खलु त्वयापि तस्य प्रत्युपकारः कर्तव्य इति भावः । एतदभिप्रायं मनसि निधायाह--जह इत्यादि । आत्मनः स्वस्य प्रभविष्यामि यदि स्वतंत्रा भविष्यामि चेत् प्रत्युपकारं कर्तुं शक्यमिति भावः किन्तु काश्यपाधीनेत्यर्थः । विसर्जितव्यस्य विसर्जनस्य रोद्धव्यस्यावरोधस्य । वाशब्दः समुच्चये । “ वाव्ययं स्यात्समुच्चये । उपमायां विकल्पे च निश्चये च निगद्यते । । ” इत्येकाक्षररत्नमाला । विसर्जनावरोधयोस्त्वं केत्याक्षेपे । किन्तु महाराजेन खलु वृक्षसेचनद्वयस्यऋणं निष्कासितं स एव ममावस्थानप्रेषणयोः प्रभुरिति भावः । शकुन्तलां विलोकयन्निति ॥ नस्या वहुविधाश्चेष्टाः विशिष्य पश्यन्निति यावत् चेष्टानामेवाभिप्रायव्यंजकत्वात्। किन्नु खल्वित्यादिना मद्दर्शनजनितमन्मथविकारप्रभवाः सात्विकभावादयस्तावदस्वाभाविका वंचका अवंचकाश्चेति शकुन्तलानुरागं संदित्त्य ततः अथ वेत्यादिना निश्चायकचिह्नैर्निश्चिनोति ॥ तदेव निश्चायकमाह--वायमित्यादि । आभिमुखे संमुखे भाषमाणे मयि मे


१ मे इ० पा० । २ सा इ० पा० ।