पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१२५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ११० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


णाधिको द्वादशांगुलाधिकः । उक्तं च ‘ देहं व्यप्य स्वनाडीभिः प्रमाणं कुरुते बाहेः । द्वादशांगुलमानेन तस्मात्प्राणः समीरितः । ’ इति । श्वसो निःश्वासवायुः । अत एव स्तनयोर्वेपथुं कम्पं जनयति । “ अथ वेपथुः । कम्पः " इत्यमरः । यद्यपि सर्वाङ्गस्य स्वेदयुक्तत्वं तथापि तस्य संवृतत्वान्मुखे पूर्वमुत्पत्तेर्मुखमर्धशरीरं तस्य । 'सर्वे वा मुखमुच्यते ' इत्युक्तेश्च वदन इत्युक्तिः । तेन कपोलयोरलिके चिबुक इत्यर्थः । घर्माम्भसां स्वेदोदकानाम् । ‘ घर्मः स्यादातपे ग्रीष्मे उष्णस्वेदाम्भसोरापि ' इति विश्वः । यज्जालकमशोकादिनवकलिकावृन्दाकारं बिन्दुकदम्बकं लक्षणयोच्यते--‘क्षारको क्त्वीबे’ इत्यमरव्याख्याने क्षीरस्वामी । जालमिव जालकम् । उद्भिन्नमात्रकलिकावृन्दमिति व्याख्यानात् । तेनाशोकदिनवकलिकावृन्दं वाच्यम । सामान्यस्य विशेषनिष्ठत्वात् | नहेि नेिर्विशेषं सामान्यमस्ति । तेनाकारसामान्याद्बिन्दुवृन्दं लक्ष्यते । सातिशयोद्दीपकत्वं व्यङ्ग्यम् । यदि समूहमात्रं व्यङ्ग्यं स्यात्तदा ' घर्माम्भसां मण्डलम् ’ इत्येव ब्रूयात् । तत्स्रस्तं गलितम् । श्रमातिशयादिति भावः । ननु सुख्यार्थबाधे लक्षणा । न चात्र तद्बाधः तेन तद्वीजाभान्न सेति चेत् । तात्पर्यानुपपत्तेरपि लक्षणाया बीजस्योरीकृतत्वात्तामेवानुवाद्यविशेषणद्वारा व्यनक्ति--कर्णेति ।कर्णेऽवतंसीकृतं शिरीषपुष्पं कर्णशिरीषम् । मध्यमपदलोपी समासः । तद्रोद्धुं शीलं यस्य तत् कर्णशिरीषस्य रोधो विद्यते यस्मादिति बहुव्रीहौ मत्वर्थी यस्य व्ययेया स्यात् बिंदुस्तवकत्वेन विधानाद्रोधस्यासां वर्षिताः सादर्शिता (?) अन्यस्योक्तानुक्तयोरर्थं प्रति विशेषाभावादपुष्टार्यैव पर्यवस्येत् । बन्धे केशबन्धे स्रंसिनिस्खलति सति मूर्धजाः केशा एकेन हस्तेन यमिता बन्धनं नीताः । अतएव पर्याकुलाश्चञ्चलाश्च । पूर्ववाक्यसमुच्चये स्वभावोक्तिः । सर्वत्र घटोत्क्षेपणदिति हेतोरुक्तेरादिकारकदीपकालंकारः । अतएव नावृत्तिनिबन्धनापेक्षा । तदलंकारान्तरगतत्वात्तस्याः तदुक्तम्- सैव क्रियासु बह्वीषु कारकस्येति दीपकम् । सैवावृत्तिः’ इति । “ अर्थावृत्तिः


तिशयितरागमिति भावः । अद्यापि वृक्षसेचने निवृत्तेऽपि प्रमाणाधिकः मात्रा तिस्टंघां बन्धे केशपाशे स्रंसिनि शिथिले सतेि एकहस्तयमिताः एकेन हस्तेन बद्धाः अन्यहस्तस्य घटावलंबनत्वादित्यर्थः । इह खलु राज्ञा वृक्षसेचनकरणजनितपरिश्रमकश्रमव्याजेन स्वभिलाषपरिकल्पितानि रतिवि शेषजनितब्यंजकानि विशेषणान्युपात्तानि ।