पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अङ्कः १] टीकाद्वयसहितम् | ( ९५ )


शकुन्तला -- (आत्मगतम् ) हिअअ, मा उत्तम्म | एसा तुए चिन्तिदाइं अणसूआ मन्तेदि | [हृदय, मोत्तम्य | एषा त्वया चिन्तितान्यनसूया मन्त्रयते ] राजा–-( आत्मगतम् ) कथमिदानीमात्मानं निवेदयामि, कथं वात्मापहारं करोमि | भवतु | एवं तावदेनां वक्ष्ये |( प्रकाशम् ) भवति, यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविधक्रियो- पलम्भाय धर्मारण्यमिदमायातः |

त्यपरिहारः | कतम आर्येण राजर्षेर्वशोऽलंक्रियते | कस्मिन्नभिजने वंशालंकारस्य ते जनिरजनीत्यर्थः | कतमो वा विरहेण स्वावियोगेन पर्युत्सुक उत्कण्ठितां जनो यत्र स देशः कृतः | कस्माद्देशादागतोऽ- सीत्यर्थः | एतभ्दङ्गयोक्तिस्तु सकलगुणानुरागं ध्वनतेि | किंनिमित्तं वा सु- कुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदं स्थानमुपनीतः प्रापितः | तपोवनपदेन नात्यधिकप्रयोजनत्वं सूचयति | अत एव परिश्रमपदम् | फलान्तराभावात्परिश्रममात्रमिति भावः | हृदय मोत्ताम्य | एषा कत्रा त्वया चिन्तितानि कर्मभूतान्यनसूया मन्त्रयते वदति | अनेन हावलक्षणो विकार उक्तः--‘भावादीषत्प्रकाशो यः स हाव इति कथ्यते ’इति| भव-

दनागारिकतया परचित्तानभिज्ञतया चास्माभिः प्रियं विप्रियं वा यत्किंचिदुच्यमानेऽपि प्रभोर्निर्विकारत्वभिति यत्सविश्रंभो मां निःशंकं प्रेरयतीति भावः | कतमो वा राज- र्षिवंशोऽलंक्रियत इत्यनेन कस्मिन्वंशे उत्पत्तिरिति पृष्टं भवति | राज- र्षिवैश इत्यनेन त्वया प्रच्छाद्य वक्तुं न शक्यते आकार एव कथयतीति व्यज्यते | किंच राजर्षिवंश्यस्त्वसत्यं न वदतीत्यपि राजानं प्रति सूच्यते | विरहपर्युत्सुकः कृत इत्यनेन को देशः | तद्देशपरित्यागे को वा हेतुरिति शंसितं भवति | किं निमित्तं वा सुकुमारोऽपीत्यादिनात्राथमागमने किं कारणमिति पृष्टमि- त्यवगंतव्यम् | अनसूये को नु खल्वित्यादिनैतदन्तेन पृच्छालंकारः | उक्तं च “ यत्रा- कारोद्भवैक्यैरात्मानमथवा परम् | पृच्छन्नेवाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता || ” आकारव्यंजितैर्वाक्यैः स्वस्वरूपं परस्वरूपं वा व्यंग्यवृत्त्या यन्नाभिधीयते सा पृच्छा- लंकारः | प्रकृते वंशदेशगमनादीनि व्यंग्यवृत्त्या पृष्ठानीति पृच्छा भवति | हिअअ इति | अत्र हृदयोत्तमनेनौत्कंठाकातर्यभूतचित्तादिकमुक्तम् | कथमित्यादि | आत्मा-

१ न्तिद्ं दाणिं ( न्तितमिदनीं ) इ० पा० | २ माश्रमिणाम ३० पा० |