२
पञ्चमांके-दुर्वासःशापविस्मृतशतलावृत्तांततया कण्वाश्रमागतशकुंतळादिदर्शनतद्वच श्रवणनिरानंदन मनसा तां प्रत्याख्यायापि सतः स्वस्य परितोषालाभात् प्रत्याययतीव मे हृदयमिते राज्ञः परिचितनम् ।
षष्ठाके-शापानेवर्तकस्वांगुलीयकदर्शनेन शकुंतलासंबंधियावधृत्तांतसंततेः स्मृतैौ जागरूकतया पश्चात्तप्तहृदयस्य शकुंतलाप्रतिकृतिलेखनवीक्षणादिना स्वात्मानं विनोदयतः तत्प्रत्याख्यानमहापराधसंभावितस्वसंतानप्रत्यूहस्य स्वीयविभवेषु नैराश्यात्तत्सर्वमपि प्रजार्थे विनियुज्यतामिति मंत्रिणोऽनुशास्य शकुंतलैकायत्ताचित्तस्य राज्ञः कथंचिन्मातलिसंदर्शनेन
स्वप्रभावं दुर्जयासुरविजयायेन्द्ररथारोहणं प्रतिपादितम् ।
सप्तमाक-इन्द्रप्रार्थनया स्वर्गलोके कृतप्रत्यर्थिविजयस्य प्रत्यागमनसमये मारीचसेवार्थं तदाश्रमं प्रविष्टस्य निरतिशयवरोित्कर्षत्रियार्भकदर्शनेन तत्प्रसक्त्या स्वविरहव्रताचरणकृशतनोः स्वप्राणप्रेयस्याः शकुंतलाया दर्शनेन च समुल्लसितहृदयाह्रादस्य मारीचानुशासनविदितभवितव्यताबलसंप्राप्तपरस्परविक्ष्लेषज्ञाननिःसंकोचविकसितपरस्परानंदमुदांपत्यस्य राज्ञ इष्टदेवताभूतमारीचप्रसादात्सर्वाभष्टसिद्धिर्निर्वहणे निरूपिता ।