पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अङ्कः १] टीकाद्वयसहितम् | ( ९३ )


राजा--( सर्वा विलोक्य ) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् |

तपोवनविरोधिनो विकारस्य गमनीया विषयभूतास्मि संवृत्तः | अनेना- स्याभावो नामाङ्गजो विकार उक्तः | तल्लक्षणं यथा — ' नेिर्विकारात्मके चित्ते भावः प्रथमवित्रिया ' इति | जनान्तिकमिति | तल्लक्षणं- दशरूपके-- ' त्रिपताककरेणान्यानपवार्यान्तरा कथाम् | अन्योन्या मंत्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ' इति | त्रिपताककरलक्षणं संगीतरत्नाकरे पताकलक्षणमुक्त्वा --' स एव त्रिपताकः स्याद्वक्ति-

रस्य वा । गमनीया विषयभूता | अनेन लोकोत्तरपुरुषदर्शनेन राजविषये शकुन्तलाया अनुरागो जात इति द्योत्यते | स्वसौग्व्याभावे अनुरागरूपचित्तविकाराभावात् | तथा स्वामिनिवेशनं प्रकटीकरिष्यत्युत्तरत्र हृदय मा उत्ताम्यस्वेत्यादिना | अनेन शकुन्तलाया अनुरागबीजमुपक्षिप्तम् | तस्मान् बीजस्य कथनेनोपक्षेपो नाम मुखसन्ध्यंगनुक्तं भवति | तदुक्तम् " बीजस्योक्तिरुपक्षेपः " इति | साधनत्वाद्बीजस्यादावुपक्षेपः | बीजलक्षणमुच्यते " स्तौकोद्दिष्टः कार्यहेतुः पश्चात्मविस्तृतः " इति वीजवद्वीजमुक्तम् | उक्तं च " यत्नु स्वल्पमुपक्षिप्तं वहुधा विस्मृतिं गतम् | कायस्य कारणं ग्राज्ञैस्तद्वीजमिति कथ्यते ||" यथा सुविहितं वोजं फलपर्यवसायितद्वदिदमपीति | स्तकोद्दिष्टः स्वल्पोपक्षिप्तः | अनन्तरमनेकधा मूलस्कंधपलाशादिवदंकुरितपल्लवितकुमुमितादिभेदेन नायकोपनायक- प्रतिनायकभेदेन च वहुधा विस्तारी कार्यस्य त्रिवर्गरूपस्य फलस्य यो हेतुस्तद्वीजम् | यथा मालविकाग्निमित्रं कौमुदिका कहिं पत्थिदासीत्यादिना मालविकायामनुरागस्य चित्रदर्शा- नम् | तत्राप्यादरातिशयश्र कारणमुक्तम् | यथा वा मदीये नैषधानन्दै नलस्य | दमयन्त्या- मनुरागस्य स्वप्रदर्शनम् | तच्च बीजग्रधानकार्यावांतरकार्यहेतुभेदादनेकप्रकारम् अत्र प्रधा- नकार्यवीजभुक्तम् | अवांतन्कार्यबीजं यथा मालविकाग्निमित्रे विदूषकं प्रति किंचिदुपेयो- पायदर्शनेत्यादिना मालविकार्शनरूपावांतरकार्यस्य हरदत्तगणदासयोर्विबादकरणं र्वाजमु- पन्यस्तम् | यथा वा मदीये नैषधानन्दे " अद्य स्वप्ने प्रियसख मयादर्शि काचित्रिलोकीभूष- योषा फणितिमनसोरप्यलक्ष्यानुभावा | स्मारंस्मारं तरलनयनां तां तपत्यतरात्मा वारंवारं विसृजति शरान् पातकी पंचवाणः | " अत्र नलेन हंसं प्रति दमयन्त्यनुरागस्य स्वप्नदर्शनं बीजमुक्तम् | ततस्तत्प्राप्त्यधै | चित्ताश्वसंचारणशैर्यशुल्केत्यादिना स्वयंवर धत्रिकादर्शनभवान्तरं वीजमुपन्यस्तम् | सर्वा इत्यादि || मुहृदो भावः सौहार्दम् |