पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१०६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

अङ्कः १ ] टीकाद्वयसहितम् | ( ९१ )


 अनसुया‌-}}-अज्ज, ण क्खु किंवि अञ्चाहिदं | इअं णो पिअसही महुअरेण अहिहूअमाणा कादरीभूदा | (इति शकुन्तलां दर्शयति ) [ आर्य, न खलु किमप्यत्याहितम् | इयं नौ प्रियसखी मधुकरे- णाभिभूयमाना कातरीभूता ] {{gap}राजा--( शकुन्तलाभिमुखो भूत्वा | ) अपि तैपो वर्धते | {{center( शकुन्तला साध्वसादवचना तिष्ठति )  अनसूया--दाणिं अदिहिविसेसलाहेण | हलाँ सउन्दले, गच्छ उडअं | फलमिस्सं अग्धं उवहर | इदं पौदोदअं भविस्सदि | ( इति घटमवलोकयति ) [ इदानीमतिथिविशेषलाभेन | हला शकु- न्तले, गच्छोटजम् | फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति ]  राजा--र्भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् |

दीनां दृष्टश्च श्रुत्या च तर्जनम्’ इति | आर्य, न खलु किमप्यत्याहि- तम् | ‘अत्याहितं महाभीतिः कर्म जीवानपेक्षि च' इत्यमरः | इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूतां ! साध्वसादवचना तिष्ठतीति कविवचनम् | इदानीमतिथिविशेषलाभेन | त्वल्लाभेनेत्यर्थः | अनेनानुवृ- त्तिनामा नाट्यालंकार उपाक्षिप्तः | तल्लक्षणं तु--‘प्रश्रयादनुवर्तनम् | अनुवृत्तिः' इति | हला शकुन्तलेः गच्छोटजम् | 'मुनीनां तु पर्णशालो- टजोऽस्त्रियाम' इत्यमरः | फलमिश्रमर्घमुपहर | इदं पादोदकं भवि- प्याति | सूनृतया सत्यया प्रियया च | ' सूनृतं तु प्रिये सत्ये 'इत्व-


दृष्टिस्तु राजार्वषयेति भावः | अतः प्रयुक्तं किंचिदिवेति || अज्जेति | अत्र मधुकरेणा- कुलीक्रियमाणेत्यनेन शकुन्तलामुखादिविषयसौरभादिसौभाग्यातिशयप्रख्यापनं व्यज्यते | आवयोः प्रियसखीत्यनेन चिरमहवासाच्छकुन्तलाह्रदयमर्मज्ञतानसूयाप्रियंवदयोः सूच्यते | प्रियसखीत्वात्स्ववचनस्यानुछंधनीयत्वं च शकुन्तलाया ज्ञाप्यते | सखित्वाद्रोपनीयं हृदि स्थितं शकुन्तलायाः किमपि नास्ति अस्या हृदयमस्मदर्धानमस्मद्दारा एतद्विषये प्रवृत्तिः कर्ताव्येति राजानं प्रति ज्ञप्यते | अत्याहितं महाभीतिः | अपिप्र | दाणिमिति | तपो वर्धन इति ठोपः || भवन्वित्यादि || सूनृतया प्रियसत्यया | "सूनृतं प्रिय-


१ आडळीकियमाणा ( आकुलीत्रियमाणा ) इ० पा० | २ नाम इत्य० क्क० पु० | ३ साअंद अज्जस्स ( स्वगतमार्यस्य ) इत्य० क्क० पु० | ४ अव ( तावत् ) इत्य० क्क० पु० | १५ भवतु इत्य० क्क० पु० |