पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१०५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ९० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


कोऽयमिति. क्रोधेनोक्तिः । मुग्धास्वचतुरासु तपस्विकन्यास्वविनयमाचरतेि । तपस्विशब्देनात्यन्तासंभाव्याविनयस्थानत्वं व्यज्यते । अत्र भ्रमर इतेि मयि दुष्यन्त इति शकुन्तलायां चेति विशेषे प्रस्तुते कोऽयमित्यादेः सामान्यस्योक्तेतरप्रस्तुतप्रशंसा | अनया चैतत्प्रतापस्य व्यापकत्वं व्यद्धयन्त्या तस्य राजभावगोपनं ध्वनितम। छेकवृत्यनुप्रासौ । अनेन दण्डलक्षणं संध्यङ्गान्तरमुपक्षिप्तम् । तल्लक्षणं तु सुधाकरे --‘दण्डस्त्वविनया-


प्रातिकूल्यं नाचरेदित्यत आह्--*पस्विकन्यास्विति । अनेन रागाभावादण्यवामित्वायञ्च कम्याप्युपद्रवकरणाभावः सूच्यते । तर्हि प्रौढाश्चेत्पुत्रवात्सल्यादिरागादिकमस्थीत्यत आह--कन्यास्विति अप्रगल्भास्विति यावत् । तर्हि कन्यकात्वेsपिदुष्टजनसहवासवशात्किंचित्कैतवं कुर्वेतीत्यत आह--मुग्धास्विति । तादृशनागरिकसहवासाभावाच्छाठ्यानभिन्नस्विति यावत् । अविनयं परकन्यकाया वलादाहरणरूपासन्मार्गम् आचरतीति वर्तमानप्रयोगेणाद्यापि मम पुरत आचरतीति मधुकरनिःशंकधार्ष्ट्यजनिताश्चर्यं द्योत्यते । क इत्याक्षेपे । अचमित्यनेन तिर्यग्जन्तोः परस्त्रीग्रहणे दोषाभावादन्यायस्त्वाचरितः अस्मद्राज्ये मनुष्यः कोऽप्येवमनियमाचरितुं न शक्नोतीति भावः । अत्र राज्ञा मधुकरनिवारणकथनव्याजेनानुनयेनैव कन्या वशीकर्तव्या न तु बलादिति ज्ञाप्यते। नायिका त्रिविधा मुग्धा मध्या प्रगल्भेति । तत्र मुग्धा नववयःकामविवेकेर्ष्याकषायिता । " मुग्धे सौम्ये नवे मूढे” इति यादवः । अत्र श्लोके प्रसिद्धिर्नामालंकार उक्तः । यदाह- "वाक्यैः सातिशयैर्युक्ता वाक्यार्थस्य प्रसाधकैः । लोकप्रसिदिबहुला प्रसिद्धिरति कीर्तिता ॥ ” इति । अत्र दुर्विनीतानां शासितरि वसुमतीं शासतीति राज्ञोऽतिशयोक्तिः । दुष्टशिक्षाकारित्वादेव प्रकृतभ्रमरवधानिवर्तकत्वम्म् । पौरव इति लोकप्रसिद्धिः । अत्र पद्ये दंडो नाम सन्ध्यन्तरांगमुक्तम् । उक्तं च " दंडस्त्वविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम् " इति । अत्राविनयश्रुत्या दुष्यन्तेन कृतं तर्जनं दंडः । सन्ध्यन्तरांगानि निरूप्यते । " मुखादिसंधिष्वंगानामशैथिल्यं प्रतीयते । संन्ध्यन्तरेषु योज्यानि तत्र तत्रैकविंशतिः॥ सामभेदौ दानदंडौ प्रत्युत्पन्नमतिर्वधः । मायाक्रोधं भयं प्रज्ञा गोत्रस्खलितसाहसौ ।। ओजः संवरणे भ्रांतिर्देत्यं हेत्ववधारणम्। लेखस्वप्रश्वित्रमताविति ख्यातानि नामतः ।। एवं सन्ध्यन्तरेंsगानि प्रभवंत्येकविंशतिः ।। " सर्वा इत्यादि । इवशब्दो वाक्यालंकारे । किंचिदीषत् । नत्वत्यर्थमिति यावत्। संभ्रांता आटोपवत्यः संभूताः। ‘‘संभ्रमाटोपसंरंभाः इति यादवः । सर्वास्तद्रूपमोहितदृष्टयो भूत्वातिथिसत्कारार्घ्यापाद्यादिकर्मणीषदव व्यापृताः नवत्यर्थम् अत एवोक्तं किंचिदिवेति । यद्वा इवशब्दो भावाथर्कः । किंचिदपि न सञ्जाता इति यावत् । लोकोतररूपलावण्याद्यतिशयमहापुरुषदर्शनेन विस्मयादवशा भूत्वा व्यापारान्तरे मन:पूर्वे सवाकीरणे प्रवृत्तिर्नास्ति किंतु.