पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ८९ )
टीकाद्वयसमेतम्


राजा--अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम्-

“( इयर्धोक्ते । स्वगतम् ) राजभावस्त्वभिज्ञातो भवेत् । भवतु । एवं तावदभिधास्ये ।

शकुन्तला–( पदान्तरे स्थित्वा । सदृष्टिक्षेपम् ) कहं इदोवि

मं अणुसरादि । [ कथमितोऽपि मामनुसरति ]

राजा–( सत्वरमुपसृत्य )
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ।। २४ ।।
( सर्वा राजानं दृष्टा किंचिदिव संभ्रान्ताः ) ।।

स्वगतमिति । ‘अश्राव्यं स्वगतम्’ इति तल्लक्षणात् । राजभावो राजत्वम् । कथमितोऽपि मामनुसरति | क इति । दुर्विनीतानामविनीतानां दुष्टानां शासितरि दण्डादिना शिक्षके पौरैवे पुरुवंशोत्पन्ने | वसुमतीं भूमेिं च । अथ च वसुमतमिति रक्षायोग्यत्वं ध्वनितम् । शासति सति ।


वनानि नाम । नामशब्दः प्रसिद्धार्थकः । अर्धोक्त इति । अर्थस्य वाक्यैकदेशस्य उक्ते कथने विचार्यं विमृश्य विचारे करणमाह राजभावस्त्वभिज्ञात इति भवत्यिपायस्मरणे एवमभिधास्ये इत्थं वक्ष्यामि वक्ष्यमाणप्रकारेण शजभावं प्रच्छाद्याभिधास्य इति यावत् । गुण एसो इत्यादि । सदृष्टिक्षेपमिति । दृष्टेर्दंशनस्य क्षेपेण प्रेरणेन सहवर्तत इति सदृष्टिक्षेपं क्रियाविंशेषणं चैतत् प्रकृतिप्रत्ययसमूयस्य प्रकृत्यर्थभागमुखेन भेदकं क्रियाविशेषणं कथमिति ज्ञातव्यहेतुजिज्ञासायाम् । कः परव इत्यादि । पैरवे पुरुवंशोद्भवे दुष्यंते अत्र पौरव इत्यनेन महाकुलीनत्वं सर्वलोकप्रसिद्धत्वमद्वितीयत्वं च ज्ञाप्यते । तादृशस्तव कर्णपथं नागतः किमिति भावः । स तु प्रसिद्धो भवतु मम किमित्यत आह । वसुमतीं शासतीति । अत्र वसुमतीमित्यसंकोचनिरुपपदेन सार्वभौमत्वं व्यज्यते तद्राज्यवासितया तवापि नदाज्ञापरिपालनयेति भावः । तर्हि यः कश्चित्कुलक्रमागतं राज्यं परिपालयति तस्य दुष्टशिक्षाकरणसामर्थ्यं नास्ति कथमविनयाद्यनाचाररूपतदाज्ञापरिपालनामित्यत आह--शासितरीति । नियामक इत्यर्थः । अनेन शौर्यादिगुणाः सूच्यंते ; न तु वैतालिकसंकेतितारोपितकृत्रिमशौर्यादिगुणाः इति भावः । तर्ह्युपकर्तृषु को वा


१ दर्शयितुम् । कः कोऽत्र भो ( इत्यधोंके विचार्य ) इ० पा० २ न एसो दुष्टो

विरमदि ता अण्णदो गमिस्सं ( नैष दुष्टो विरमति तस्मादन्यतो गमिष्यामि ) इत्यधिकं क्व० पु० ।