पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ८८ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


शकुन्तला–णं एसो दुट्टो विरमदि । अण्णदो गमिस्सं ।

( पदान्तरे स्थित्वा सदृष्टिक्षेपम् ) कहं इदो वि आअच्छदि। हला, परित्ताअह मं इमिणा दुब्बिणीदेण दुट्टमहुअरेण पडिहूअमाणं । [ न एष दुष्टो विरमति । अन्यतो गमिष्यामि । कथमितोऽप्यागच्छति । हला, परेत्रायेथां मामनेन दुर्विनीतेन दुष्टमधुकरेण परिभूयमानाम् ]

उभे--( सास्मितम् ) का वअं परित्तादुं । दुस्सन्दं अक्कन्द ।

राअरक्खिदव्वाइं तवोवणाइं णाम । [ के आवां परित्रातुम् । दुष्यन्तमाक्रन्द । गजराक्षतव्यानि तपोवनानि नाम ]


इत्युक्तेरालिङ्गनचुम्बनयोः पूर्वत्वम् । अनेन नायकाभिप्राये व्यज्यते । अधरं न तूत्तरोष्टं पूर्वेक्तविशेषणस्य तत्रैव संभवात् । तत्रैवास्य कविभिरङ्गीकारात् । पिवसिसादरमवलोकयसीति भ्रमरपक्षे । अन्यथा तन दंश एव क्रियेतेत्युक्तमेव प्राक् । आरोपपक्षे चुम्बसीति श्लेषः । वयं हतास्त्वं कृतीति व्यतिरेकः । नीलोत्पलादिभ्रान्त्या भ्रान्तिमान् । भ्रमरस्त्रभायक्तिः । त्वं कृतीत्यत्र चरणत्रयं हेतुत्वेनोपात्तमिति काव्यलिङ्गम् । आद्यवाक्यद्वये रशनाकाव्यलिङ्गमपि । श्रुत्यनुप्रासश्च । शिखरिणीवृत्तम् । यद्यपि हुता इत्युक्तं तथाप्यभिलाषचाटुकप्रवणत्वेन तसुखागमस्य भावात्प्राप्तिरित्यङ्गमुपक्षिप्तम् । यतो धनिकेनोक्तम्- ' साक्षात्पारंपर्येण वा विधेयानि ' इति । तल्लक्षणं तु ‘ सुखार्थस्योपगमनं प्राप्तिरित्यभिधीयते ' इति । न एष दुष्टो विरमति । अन्यतो गमिष्यामि । पदान्तरे स्थानान्तरे । कथमितोऽप्यागच्छति । परिंचयेथां नां दुर्विनीतेन दुष्टमधुकरेण परिभूयमानाम् । के आवां परित्रातुम् । दुष्यन्तमाक्रन्द । राजरक्षितव्यानि तपोवनानि । नामेति प्रसिद्धौ ।


अलंकाराः । कुतः पुनरेष प्रतिनियमः यदेषां तुल्यत्वेsपि काव्यशोभातिशयहेतुत्वे कश्चिदलंकारः शब्दस्य कश्चिदर्थस्थ कश्चिदुभयस्येति चेदुक्तमत्र । यथा काव्ये दोषगुणालंकाराणां शब्दार्थोभयगतत्वेन व्यवस्थायामन्वयव्यतिरेकावेव प्रभवतः संकरनिमितान्तरस्याभावात् ततश्च योऽलंकारो यदीयौ भावाभावावनुविधत्ते स तदलंकारो व्यवस्थाप्यत इति सर्वे समंजसम् ।। परिताअहेत्यादि॥। तपो-


१ णादि० आअच्छदि इत्यंतं क्वचित्पुस्तके नास्ति ।