पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ८७ )
टीकाद्वयसमेतम्


स्यात् । न च स्मृशसीत्यनेनैव नैकट्ये लब्धे प्रथमवाक्यस्य नोपयोग इति वाच्यम् । एवं कर्णं इत्यत्रापि सामीप्याधिकरणेनैव गतार्थत्वात्तत्रापेि । एवमुत्तरत्रापीत्यवकरतैव स्यात् । तेन तदुक्तिः स्वभावोक्तिपोषायैवेत्यवधेयम् । अतएव कर्ण इत्येकवचनम् । यदा यदपाङ्गेन पश्यति तदा तत्रेन्दीवरभ्रान्त्येष्टलाभेन स्वनतेि । वेपथुभर्तीं कम्पमानाम् । भयस्वभावात्तादृक्त्वम् । अर्थादृशं दर्शनक्रियायां करणत्वेन प्रस्तुतत्वात्तस्याः स्पृशसीति | दृगंशुस्पर्शनमेव वस्तुतस्तस्य उपचारात्तथोक्तिः ! समासोक्तौ धर्मारोपार्थमिदम् । तेन विना तस्या उज्जीवनाभावादिति स्थितमाकरे । अतएव साक्षाद्विशेष्यानुपादानम् । हठकामुकत्वव्यवहारारोपार्थे च । अन्यथा । सा स्त्रीजातिः , तत्रापि मुग्धा, तत्रापि तपस्विनी, तेन सुतरां तत्स्पर्श सोढुमसहा । तस्यापि कीटकविशेषस्यायं भावः । स्पर्शे दशत्येवेति यथाव्याख्यातमेव चारु । बहुश इत्यपि भत्कृव्याख्यानुसारेणैवोपपद्यते । यथाश्रुततया बहुत्वेन हेतुं वक्ष्यामः । समारोपे तु यथा कश्चित्प्रथमसाहसां कम्पमानां कांचिन्नायिकां स्पृशतेि स्पृष्टकेनालिङ्गनेन योजयति । विशेषणादेव विशेष्यप्रतिपत्तिः । कणं मृदु यथा स्यात्तथा स्वनसति स्वभावोक्तिरेव । तत्र रहस्याख्यायीवेत्युत्प्रेक्षा समारोपसाधिकैव । तथा कपोले चुम्बनविशेषो व्यज्यते । कामिनोऽपि रहस्याख्यानं व्याजश्चुम्बनमेव प्रधानम् । ' करौ व्याधुन्वत्याः ' इते विशेषणं पूर्वत्र समानमपि चुम्बने यत्करघुनने तत्स्फोरणार्थमौचित्येनात्र कविना निबद्धम् । अतएव विविधमासमन्तातादित्युपसर्गद्वयनिबन्धः । चुम्बने तु ' करौ धुनाना नवपल्लवाकृती 'इतिवत्कामशास्त्रे केवलस्यैव प्रयोग उक्तः । इदमेव बहुत्वे बीजमित्यवधेयम् ' बिशेषणादेव विशेप्यप्रतिपत्तिः ' इतेि संबन्धिबोधः । तस्या रतिसर्वस्वं संभोगानिधानम् । निधानत्वं च प्रथमतः प्राप्यत्वेन । तेनैव तन्निर्वाहात् । ' आदौ रतं बाह्यमिह प्रयोज्यं तत्रापि चालिङ्गनपूर्वमेव'


संकरः । अत एव निलतंदुलन्यायक्षीरनीरन्यायौ तयोर्यथार्थतामवगमयतः । तत्र तिलतंदुलन्यायेन संसृष्टिस्त्रिधा शब्दालंकारगतत्वेनार्थालंकारगतत्वेन चोभयालंकारगतत्वेन च । एवमुत्कटभेदमिथत्वे संसृष्टिस्त्रिधा अनुरत्कटभेदे संकरः । तत्र मिश्रत्वमंगांगिभावेन संशयेनैकवाचकानुप्रवेशेन च त्रिधाभवत्संकरः । अनुग्राह्यानुग्राहकतया व्यवसितत्वात्रिप्रकारतयैव संक्रर: । अंगमनुग्रहकमंग्यनुप्राह्यम् । प्रकारांतरेण तु न शक्यो वक्तुमानंत्यात्तत्प्रभेदानामिति प्रतिपादिताः शब्दार्थोभयगतत्वेन त्रैविध्यगता