पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाकुंतलनाटकसारसंग्रह।

 प्रथमांके-नान्दीपठनम् । ततः प्रस्तावनायां सूत्रधारेण नाटकीयस्य वस्तुन उपक्षेपः । मृगयाविहारी पार्थिवो दुष्यन्तः केनाप्यतिरंहसा सारद्रेण दूरं हृतोऽनुमालिनीतिरं कुलपतेः कप्पस्याश्रमं निकषा प्राप । यावच्च कृष्णसारस्य वधार्थे धनुषि शरं संदधाते तावत्केचित्तपस्विन उपेत्योन्यै राजानमब्रुवन् ‘आश्रममृगोऽयं न हन्तव्यः' इति । तद्वचनानु रोधाप्रतिसंहृतसायकस्तैधाभिनन्द्य “ चक्रवर्तिनं पुत्रवभानु हि ’ इति कृताशीर्वचनस्तन्निदिष्टं कण्वाश्रमं प्रवेष्टुमैच्छद्राजा दुष्यन्तो विनीतवेषेण तपोवनं प्रविवेश । वृक्षसेचनव्यापृतमद्भुतरूपसंपत्कन्यकात्रयं ददर्श । तासां विश्रम्भालापेषु सख्योस्तन्नामग्रहणाच्छकुन्तलां ज्ञात्वा तस्या अव्याजमनोहरं रूपं दृष्ट्वा विस्मितो बभूव । पश्चात्ताभ्यां कथाप्रसंगेन शकुन्तलाया जन्मावृत्तान्तमुपलभ्य राजा तस्याः प्राप्तिं प्रति जाताशोऽ भवत् | शकुन्तलापि राजानं दृष्ट्वा तपोवनाविरोधिनो विकारस्य गमनीया संवृत्ता । अत्रान्तरे नृपस्यन्दनालोकभीतस्य वन्यगजस्य केनापि वनक सोच्चैरुद्धोषितं वनप्रवेशं श्रुत्वा सभ्रान्ताः कन्यका उत्तस्थुः । राजापि दर्शनेनैवै भवतीनां पुरस्कृतोऽस्मि तद्यथाश्रमवाधा न भवति तथा यतिष्य इत्युक्त्वा निष्क्रान्तः ।

 द्वितीयांके-पूर्वोकोक्तस्य बीजस्य कामं प्रिया न सुलभेत्यादिना बहु लीकरणानन्तरमेतां प्रवृत्ति विदूषकोऽन्तःपुरे निवेदयेति संशय्य राजा परिहासाविजल्पितं सखे इत्यादिं वाक्येन स्वाभिमतगोपनपूर्वकं स्वनगरं प्रति विदुषकप्रस्थापनम् ।

 तृतीयांके-नायकदर्शनसमुल्लासितमनोभवायाः शकुंतलाया विविधमद नावस्थानुभवः, राज्ञश्च स्वविषयानुरागनिश्चयेन तस्या उपळ्ळनपूर्वकमु भयमनोरथसंपादनं चाभ्यषार्णि ।

 चतुर्थोंके-नायकैकायतचित्तत्वेनाकृतातिथिसत्कारायाः शकुंतलायाः दुर्वासशापप्राप्तिः, तस्यांगुलीयकदर्शननिवत्येवरूपानुग्रहप्राप्तिः, ततः कण्वमहर्षिणा सौसुक्यवात्सल्यानुबंधं कुळपालिकाजनोचितधर्मानुशास- नाशीर्वचनाद्यभिनंदनपूर्वकं शकुंतलाया भर्तृनगरप्रेषणं चाभ्यधायि ।