पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ६७ )
टीकाद्वयसमेतम्

शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनों योदे जनस्थ ।
दूरीकृताः खलु गुणैरुद्यानलत वनलताभिः ॥ १७ ॥


इति विश्वः । शुद्धान्तेति । आश्रमे वस्तुं शीलं यस्य । शीलार्थेन णिनिप्रत्ययेन तादृग्रूपासंभवो द्योत्यते । जनस्य सामान्यजनस्य । ‘ लोके जगद्भेदे पृथग्जनः? इतेि हैमः । शुद्धान्तो राजस्त्रियः। तात्स्थ्यादिति क्षीरस्स्रामी । तासां दुर्लभम् | इदं प्रत्यक्षतः परिदृश्यमानं जगत्रयैकमोहनं वपुर्यदीति । विशेषे प्रस्तुते सामान्यस्योक्तेरप्रस्तुतप्रशंसा । तदा वनलताभिर्गुणैः सौगन्ध्यादिभिरुद्यानलता दूरीकृताः । तिरस्कृता इयर्थः । उद्देश्यप्रतनिर्देश्यत्वादत्र कथितपददोषभावः छेकवृत्यनुप्रासौ । निदर्शनालंकारश्च । न दृष्टान्तः निरपेक्षेयार्वाक्ययोर्बिम्बप्रतिबिम्बाभावे दृष्टान्तस्योक्तेः । राजानकमम्मटवस्त्वत्र प्रतिवस्तूपमामाह । तन्न चतुरस्त्रम् । यतः शुध्दान्तदुर्लभत्वं वनलताभिर्गुणैर्दूरीकरणत्वं नै ( )कं तत्त्वम् ! यदीत्यनेन वाक्यद्वयनिरासञ्च | ‘सामान्यस्य वाक्यद्वये पृथङ्निर्देशः प्रतिवस्तूपमा’ इति तल्लक्षणम् । उदाहरणं च—‘चकोर्य एव चतुराध्श्चन्द्रिकापानकर्मणि । आवन्य एव निपुणाः सुदृशो रतनर्मणि ।


पपादचति ।शुद्धाम्तदुर्लभमित्यादिना / शुद्धान्तो राजभवनं तत्रापि दुर्लभं न लभ्यम् । "रत्नहारी तु पार्थिवः" इते वचनाल्लोके या या रूपवत्यस्ता : सर्वा विचार्य राजभवनमानीयंते अन् एवोक्तं शुद्धांन्तदुर्लभमिति । यद्वा सकलसौख्यवत्वेन शरीरलावण्यातिशयो भवतेि त्रयेतादृशवपुषो दुर्लभत्वेन रूपाद्यतिशयो व्यज्यते । यद्यत्रापि राजगृहवसौख्यसद्भाव रूपातिशयः किं न स्यादित्यत आह आश्रमवासिन इति । ताच्छील्यार्थप्रत्ययेन निरंतरावलित्वं द्योत्यते। जाग्रमवासित्वेऽपि राजाद्युचिताहारादिमवें रूपादिकं न दुर्लभं क्रिमित्यत आह यदि जनस्येति । तादृशसनोहराहारादिभोगरहितस्येत्यर्थः । तादृग्रूपादिकारणाभावेऽपि “ऋषेर्विचित्रशक्तिमत्वमहिन्नैव तादृग्रूप्रादेः तद्भावमाह दूरीकृता इत्यादिना । यद्वा तादृक्कारणाभावे कथं रूपदिसद्भाव इत्यत आह दूरीकृता इत्यदि दृष्तान्तवचनम् । अनेन दृष्तान्तबलात्तादृक्कारणं करपनीयमित्यर्थः । तथा च वक्ष्यत्युत्तरत्र सर्वथाप्सरस्तंभवैपेत्यादिना । क्रीडार्थबहुप्रयत्नपरिकल्पितम् वनमुद्यानम् । तत्रैवोद्धृता लताः शस्रादिकोमलावयवप्राचुर्यात् स्त्रीलिङ्गत्वाच्च ता एव गृहीताः ननु वृक्षाः तेषां क्रीडादिकठिनावयवसंभवात्पुल्लिङ्गत्वाच्च । वनोद्भाविभिर्लताभिः । यद्यपि वनशब्दो वृक्षादिसमुदायपाचकत्वेनोद्यानेऽपि वर्तते नयाप्युसानग्रतियोगित्वेनाभिधीयमानमग्ण्यमेव भवति । निरुपपदस्य वनस्यारण्य ’ एव रूढत्यात् । गुणैरिति बनलतानां शब्दतो दूरूपत्वंतु सिद्धमेव । किंतु गुणैः सैकुमार्यपुष्पफलंयाहुस्या-