पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ६५ )
टीकाद्वयसहितम्


(नश्य)

इदो इदो सहीओ । [इत इतः सख्यौ]

कुतः । साकांक्षेभ्यो विश्वामित्रप्रभृतिभ्यः संभवत्यापि । इह तु सुतगमर्सभावनीयामित्यर्थः । अथवेत्याक्षेपे । भवितव्यानामवश्यंभाव्यानां द्वाराप्युपायाः सर्वत्र भवन्ति | द्वारं पुनर्निर्गमनेऽभ्युपाये' इति विश्वः । अर्थान्तरन्यासः । उक्ताक्षेपलंकारः ! प्रथमयतौ वृत्यनुप्रासः । उत्तरत्रश्रुत्यनुप्रासः ! अन्त्यदले भविभवेति वितन्वन्तीति छेकानुप्रासश्च । अनयार्यया परिकर इति द्वितीयमङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- ‘ यदुत्प न्नाथबाहुल्यं ज्ञेयः परिकरस्तु सः ' इति । इत इतः सख्यौ । ‘नायेिकानां सखीनां च सौरसेनी प्रकीर्तिता ' इति भरतोक्तरासां पाठचा सौरसेनी,


इत्यत्र च देवदत्तस्य दिवाभोजनस्य प्रतिषेिद्धत्वादनुपपद्यमानं पीनत्वं स्वसिद्धये रात्रिभोजनमाक्षिपतीति लक्षणाया नोपयोगः दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थो नरकल्पनमर्थापत्तिरिति भट्टमते गुरुमने वेदांतिनां मने च पृथक्प्रमाणभूता अर्थापत्तैर्नैय्यायिकादिभिरनुमानेऽन्तर्भावितत्वादविनाभावनिमित्त एव रात्रिभोजनाक्षेपः । तस्मान्सर्वत्राविनाभावसद्भावे संवेधमात्रसंभवाया लक्षणाय नोपयोगः । अत्र चानुपपद्यमानस्य पीनत्वादेः शब्दप्रमाणवेद्यत्वे श्रुतार्थापत्तिः । तस्यैव प्रत्यक्षादिप्रमाणान्तरानुग्राह्यत्वेदृष्टार्थापत्तिरिति सर्वं ससंजसम् । तर्ह्याश्रमे ऋषीणां क्रोधप्रसादयोः सद्यः फलप्रदत्वाच्छुभाशुभं कथं न भवतीत्यत आह शांतमिति । शांतं निर्विकारं रागद्वेषादिरहितमित्यर्थ ।

तर्ह्याश्रमपदमिति सामान्यवचनेन राजर्ष्याश्रमे शुभफलमस्ति । दुर्वासआद्या

श्रमेष्वपराधादनिष्ठफलमप्यस्तीत्याशंक्याह-इदमिति । इदमिति निर्देन ब्रह्मर्षेः काश्य यस्याजन्मब्रह्मचारत्वं कैम्राभायश्च प्रसिद्धमिति द्योत्यते । तर्हि कालान्तरभावि शुभाशुभफलं कथमिदानं तर्क्यत, इत्यत आह-वाहुः स्फुरतीति । स्फुरति स्पंदते । क्रियापदे वर्तमनार्थप्रत्ययेनाद्यापि स्फुरततिं निमित्तफलप्राप्योरव्यवधानं सूच्यते । अत्र बहुरीति सामन्यशब्दः इनः न तु दक्षिण: सत्र्य इति विशेषः कथितः अस्थाने स्फुरणान्निमित्तसद्भावस्य वैफल्यमाह-इहेति । देहाश्रमें अस्य बहुस्पंदनस्य फलं भोगः । फलं फले धने बीजे निष्पत्तौ भोगलाभयोः ' इति विश्वः । प्रियलिङ्गनादिभोग इत्यर्थः । कुतः कस्मात्कारणात् आश्रमपदम् शांतत्वादित्यर्थः । रागाभावात्सवर्णगजन्याश्रमाभावाच्च शुभफलं प्रियालिङ्गनादि कथं भवति । द्वेषाभासादशुभफलं सर्वानर्थकारी शापश्च कथं भवतीति भावः । अथवेति पक्षान्तरे भवितव्यानां प्राप्तव्यानां शुभाशुभफलकार्थानामिति द्वेषः "भू प्राप्तौ " इत्यस्माद्धातोरिदं रूपं सिद्धम् । पूर्वत्र समस्तप्रदेशेषु द्वाराणेि मार्गाः भवन्ति जायन्ते । आश्रमपदं शांतमिमियादौ निर्णयान्तः संदेहालंकार: । निर्णयांत आक्षेपालंकारो वा अर्थान्तरन्यासो वा । हृदो इत्यादि। आगच्छतमिति शेषः