पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ६४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।
सूतः-तथा । (इति निष्क्रान्तः )
राजा--( परिक्रम्यावलोक्य च ) इदमाश्रमद्वारम् ! यावत्प्रविशामि

( प्रविश्य निमित्तं सूचयन् )

शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १६ ॥


नीतिनामा नाट्यालंकार उक्तः । तल्लक्षणम्-' नीतिः शास्त्रेण वर्तनम् । इति । ’ इति सूतस्य ’ इति कविवाक्यम् । आर्द्रपृष्ठा इत्यनेन तेषां श्रमापनोद उक्तः ! निमित्तं सूचयन्निति दक्षिणबाहुस्फुरणं सूचयित्वा । अङ्गस्फुरणेनेत्यर्थः। 'निमित्तं हेतुलक्ष्मणोः' इत्यमरः ! शान्नमितेि । इदं परिदृश्यमानमाश्रमपदमाश्रमस्थानम् । तात्स्थ्यात्तन्निवासिजनाः । शान्तं शान्ताः शमप्रधानाः। निरीहा इत्यर्थः । अत्यन्तनिरीहत्वं द्योतयितुमचेतनम्य कर्तृत्वं कृतम् । इहाश्रमपदेऽस्य बाहुस्फुरणस्य फलं महार्हवस्तुप्राप्त्यादि


येषां ते तथोक्ताः तैः प्रवेश्यानि प्रवेष्टुमर्हाणि । नाम प्रसिद्धौ ; आर्द्रपृष्टा. सिक्तकायोपारिभागाः । यावत्प्रविशामि प्रवेक्ष्यामि । निमित्तं शकुनं शुभाशुभादिनिवेदकम् । सव्यदक्षिणनेत्रवाहादिस्पंदनमिति यावत् । तत्स्पंदनयोरेवेष्टानिष्टफलसूचकत्वात् । अत्र निमित्तमिति सामान्यत उक्तत्वादिष्टानिष्टफलइयमपि विवक्षितम् । निमित्तं भवतु नाम भवितव्यं शुभाशुभफलं केन वार्यत इत्याशंक्याह‌-शांतमिति । अत्रा श्रमपदपदेनाश्रमस्था लक्ष्यन्ते । अनेन निमित्तफलस्यानुपपतिरुक्ता इयं जहत्स्वाथा लक्षणा एतस्या लक्षणं पूर्वमेवोकम् । आश्रमपदं शांतामिति रागद्वेपादिश्चेतनधर्मत्वाश्रमपदस्य तदसंभवादाश्रमस्था एव लक्ष्यन्ते अजहत्स्वार्था यथा यष्टयः प्रविशंतीत्यादौ । यत्र शब्दः स्वस्य क्रियासिद्ध्यर्थं परमाक्षिपति सा अजहत्स्वार्था । उपादानलक्षणेति च व्यपदिश्यते । गौरनृवेध्य इत्यादौ श्रुतेः प्रभुसंमितत्वेन तवातिपादितस्यगुवंधनस्याभंगुरप्रसरत्वात्तद्विपयभूता गोत्वरूपा जातिः सामान्याकारायां स्वस्यां वदनुणनानुपपत्तेस्तवामुचितं पिण्डविशेषं सामर्थ्यादाकर्षति । “ विशेष्यं नाभिधा। गच्छेत्प्राणशक्तिर्विशेषणे' इति न्यायेन विशेषणभूतायां जातौ संकेतस्य प्रतिपादितन्वाद्गोशब्दस्याभिधाशक्तिस्तत्रैय परिससाप्ता । समाप्तसामर्थ्या तो विशेष्यभूताया व्यक्तेर्वार्तामपि वेदितुं नार्हति अतिप्रसंगादितो जातिर्व्यक्तिरुभयमपि शब्दशक्त्या समर्प्यत इति न युक्तं वक्तुम् । अवोजातिरर्थे खात्मना नाभिदधे किं त्वाक्षिपतीन्युपादानलक्षणेनोदाहरणीयः । लक्षणा प्रयोजकरूढिप्रयोजकयोरन्यतराभावात् । तर्हि तत्कथमिति चेद्यथा कियतामिति प्रयोगे कर्तुराक्षेपः कुरुष्वेति प्रयोगे कर्माक्षेपः प्रविशेत्युक्ते गृहमिति पिण्डमित्युक्ते भक्षयेत्यस्य चाक्षेपः । तथा जातिरेव व्यक्तिमाक्षिपत्यविनाभावात् । पीनो देवदत्तो दिवा न भुंक्त