पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


 नटी–णं अज्जमिस्सेहिं पढमं एव्व आणत्तं अहिण्णाणसाउन्दलं णाम अपुव्वं णाडअं पओए अधिकरीअदुत्ति । [ नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामापूर्वं नाटकं प्रयोगेऽधिक्रियतामिति ।


प्रकृतस्य च ॥ इति । प्रकरणं रूपकम् । नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामापूर्वं नाटकं प्रयोगेऽधिक्रियतामिति । “णं नन्वर्थे' इति सौरसेन्याम् । अत्र क्वचित् “ पढुमम् ’ इति पाठः सांप्रदायिकः ? यतः प्रथमशब्दस्य ‘पढम् पढुम् पुढम्' इति त्रय आदेशाः । “अहिण्णाणसाउन्दलम्’ इत्यत्र ‘साउन्तलम् इति। पाठे पूर्ववद्दत्वाभावः ! दकारपाठे ‘वर्गेऽन्त्यो वा” इति परसवर्णत्वे पक्षेऽनुस्वारे पूर्ववद्दकारः ।। येषां मते नित्यं परसवर्णस्तेषां मते "अधः क्वचित्' इति सूत्रेण दकारः । एवमग्रे ‘सउन्दले सउन्तले' पाठे रूपद्वयं ज्ञेयम् । ‘खघथधभाम्’ इति


अत्र प्रकरणशब्दस्तु प्रबंधसामान्यवाची नतु विशेषवाची । तथैव प्रबंधसामान्यं पृच्छतः प्रबंधविशेषमाह ॥ णमित्यादिना । ननुशब्दः संबोधने । प्रथममेवेति । सर्वैर्मिलित्वा किं नाटकं निरवद्यमिति सम्यग्विचार्य पूर्वमेवेत्यर्थः । आर्यमिश्रैरिति । ईर्यति विप्रकृष्टार्थं जानंतीत्यार्याः । दूरगामिमतय इति यावत् । पदपदार्थद्वारा निर्णाीतरसभावपाकमयकाव्यवाचनज्ञानकौशलाय शब्दशास्त्रपदार्थानुशासनविद इत्यर्थः । यस्मात्पदार्थाभिनयो वृत्तम् । मिश्राः पूर्वोत्तरमीमांसापारिश्रमशालिनः । तेन वाक्यार्थविचारनैपुण्यं सूच्यते । यस्माद्वाक्याभिनयो नाट्यम् । वाक्यप्रतिपाद्य एव हि रसः । तदुक्तम्- “नाट्यनृत्यं नृत्तमिति त्रिविधं गात्रचेष्टितम् । पदार्थाभिनयप्रायं वाक्यार्थाभिनयात्मकम् । अन्यानुकरणं नाट्यं रसभावनिरंतरम् । नृत्यं तु गात्रविक्षेपबहुलास्योपसंसृतम् । पदार्थाभिनयैर्युक्तमाङ्गिकैरेव केवलैः। तदेतन्मार्गमित्यार्हुनृत्तं ताललयाश्रितम् । गात्रविक्षेपमात्रं तु नृतिधात्वर्थयोगतः । भावाश्रयं तु नृत्यं स्यान्नृत्तं ताललयाश्रितम् ।" इति । अत एव पदार्थवाक्यार्थसिद्धांतज्ञानार्थमार्यमिश्रा इत्युक्तम् । तैराज्ञप्तमादिष्टं शकुन्तलामधिकृत्य कृतो ग्रंथ इति शाकुन्तलम् । नाटकविशेषणत्वात् नपुंसकम् । अभिज्ञानप्राधान्यमङ्गुलीयकाभिज्ञानदर्शनाद्राज्ञः शकुन्तलारमरणं जातमिति अपूर्वमति सभ्यानामादरत्वहेतुरुक्तः । प्रयोगेणाधिक्रियतां प्रयुज्य भूष्यताम् । अनेनेतः पूर्वं कदाप्येतत्प्रबंधप्रयोगासामर्थ्यमेतत्परिषदलाभश्च ध्वन्यते । इदानीं दैवाहूयमपि मिलितमिति भावः। अधिक्रियतामिति विध्यर्थेन सामाजिकानां चिरादरभ्यैतत्प्रबंधप्रयोगद-


१ पञ्जएण ३ पाल ।