पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ३९ )
टीकाद्वयसहितम्।


 सूत्रधारः- आयें,साधु गीतम् । अहो रा[१]गबद्धचित्तवृत्तिरालिखित इव विभाति सर्वतो रङ्गः । त[२]दिदानीं कतमप्रकरणमाश्रित्यैनमाराधयामः ।


अत्र पूर्वार्धे पूर्वयोरिंकारहिंकारपोर्लघुत्वं ज्ञेयम् । तदक्तं तत्रैव- 'इह आराविन्दुजाआए ओसुद्धापआवसाणम्मि लहू’ इति । अथ चात्र प्रमदा शब्देन शकुन्तला गृहीता । सा शिरीषकुसुमान्यवतंसयन्तीत्युक्तम् ! बहुवचनं पूजार्थम् । अत एव वक्ष्यति - "बद्धं कर्णशिरीषरोधि वदने घर्माम्भसां जालकम्' इति । विमर्शसंधिसमाप्त्यवसरे च राज्ञा 'अस्याः शकुंतलायाः प्रसाधनमभिप्रेतं विस्मृतमस्माभिः' इत्युक्त्वा ‘कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बि केसरम्' इत्युक्तम् ॥ ४ ॥ अहो इत्याश्चर्ये ।


च्यते - “स्तोकवीथ्यंगसहतं वस्तुसूचनमामुखम् । तत्र पात्रप्रवेशार्थे कथोद्धातप्रवर्तके ॥ प्रयोगातिशयश्चेति त्रीण्यंगन्यामुखस्य तु ।" ईयमान्तराभिधायिनी प्रावेशिकी ध्रुवा । तदुक्तम्- "ध्रुवाः पंच प्रयोक्तव्या रसाभिनयसिद्धये" इति । तस्यांतरध्रुवाया लक्षणं भावप्रकाशे कथितम् । “सर्वासामांतरा वस्तु रसादिवशकल्पिता । आंतरा सा ध्रुवा ज्ञेयः नाट्याभिनयरंजिनी ॥" इति । प्रवेशिक्या ध्रुवाया लक्षणं भरतेनोकभू-‘‘प्रवेशाक्षेप निष्क्रामप्रसादेषु फलागमे । गानं पंचविधं विद्याद्ध्रुवायोगसमन्वितम्” इतेि । ध्रुवायोगस्त्रिविधः । युग्मायुग्ममिश्रभेदात् तत्र युग्मश्चंचत्पुटस्थः अयुग्मश्चाचंचत्पुटाक्षरस्थः तयोरेव चतस्रतिस्रसंज्ञे तयोः संयोगो मिश्रः।" इतिवृत्तार्थसंबंधं रसभावप्रखाधकम् । पात्रप्रवेशे यद्गानं तत्प्रावेशिकमुच्यते ॥" ॥ ४ ॥ आयें साधु गीतमित्यादि ॥ अत्र गीतशब्देन रागाद्याश्रयो वर्णस्वरतालादिनिबद्धसंदर्भविशेषोऽभिधीयते । तदुक्तम् - "नादस्वराक्षराकारा त्रिविधा सा च कथ्यते । इति । रागादीनां लक्षणमुच्यते — "सर्ववर्णविशिष्टेन ध्वनिभेदेन चावृत्तः । रज्यते येन कथितः स रागः संमतः सताम् ॥" अथ वर्णः । वर्णश्चतुर्धा निरूपितः स्थायी आरोही अवरोही संचरीति । “स्थित्वा स्थित्वा प्रयोगः स्यादेकस्यैव स्वरस्य यः । स्थायी वर्णाः स विज्ञेयः परावन्वर्थनामकौ ॥ एत्त्संमिश्रिताद्वर्णः सञ्चारी परिकीर्तितः ॥" अथ स्वरः । स्वरस्तु श्रोत्रचित्तरञ्जकोऽनुरणनरूपश्रुत्याश्रितः षड्जादिः । तदुक्तम् - "श्रुत्यनन्तरभावो यः स्निग्धोऽनुरणनात्मकः । स्वतो रंजयति श्रोतृचित्तं सस्वर उच्यते” इति ॥ श्रुतिर्नाम स्वरारंभकावयवशब्दविशेषः । तदुक्तम् भरतेन - प्रथमश्रवणाच्छब्दः


१ रागनुबद्ध ० प० । २ वदंदानें इ० पा० ।।

  1. रागानुबद्ध इ. पा.
  2. वदेदानीं इ.पा.