पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


 नटी- (सविनयम्) अज्ज एवं णेदम् । अणन्तरकरणिज्जं अज्जो आणवेदु । [आर्य, एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु ]
 सुत्रधारः - किमन्यदस्याः परिषदः श्रुतिप्रसादनतः ।
 [१]टी- अज्ज, कदमं उणउद्धिुं अधिकरिअ गाइरसं ।[आर्य, कतमं पुनः ऋतुमाधिकृत्य गास्यामि]


धर्मनार्थपौनरुक्त्यम् । विश्वासाभावस्य विधेयत्वादविमृष्टविधेयांशता च । एतद्दोषपरिहाराय 'स्वस्मिन्प्रत्येति नो चेत' इति पठनीयम् ॥२॥ आर्य । इयमपि नटस्तुतिरेव । एवं णेदां एवमेतत् । 'शौरसैन्याम्' इत्यनुव्रुत्तौ 'मोऽन्त्याण्णं वेदतोः' इति णकारागमः । अनन्तरकरणीयमार्य आज्ञापयतु । अस्याः परिषदः सभायास्तान्स्थात्तत्रत्यानां सामाजिकानां श्रुतिप्रसादनतः श्रवणप्रसादादन्यात्ककरणीयमित्यनुपयुज्यते । "ऋतुं


मपीत्यनेन शिक्षाबाहुल्यात्स्वकृते सन्निबन्धत्वं सूच्यते । तेन च शिक्षाहीनशक्तिव्युत्पत्तिशून्य-कुकविविडम्बनं न सूच्यते । तदुक्तम् - "काव्यं सददृष्टादृष्टार्थं प्रीतिकीर्तिहेतुत्वात् ।" इति क्रमे "प्रतिष्ठां काव्यबन्धस्य यशसः सरणि विदुः । अकीर्तिवर्तिनीं चैव कुकवित्वविडम्बनम् । कीर्तिं स्वर्गफलामाहुरासंसारं विपश्चितः । अकीर्तिं च निरालोकनरकादेशदूतिकाम् ॥" इति । अत्र श्लोके काव्यार्थोऽपि किञ्चिद्द्योत्त्यते । तथा हि - दुषन्तविहितगान्धर्वविवाहो यद्यपि शास्त्रीयस्तथापि कण्वमुन्यभ्यनुज्ञावधि तस्य साधुतामनिश्चिन्वन् दुष्यन्तः शकुन्तलां स्वनगरमनीत्वा कण्वाश्रमे स्थापयामासेति शब्दशक्तिमहिम्ना द्योत्यते । तथा हि - विदुषां शास्त्रार्थतत्त्वविदां दुष्यन्तादिनृपाणां प्रयोगविज्ञानं प्रयुक्तिः प्रयोगः गान्धर्वविवाहः तदाचरणं तद्विषयं ज्ञानम् आपरितोषात् कण्वपरितोषावधि साधु न मन्ये हितं न विचारयामि । अन्यत्सर्वं पूर्ववत् । एतन्नटावाक्यस्य शब्दशक्तेरनेकार्थयोजनं त्रिगतमित्यवगन्तव्यम् ॥२॥ एव्वमित्यादि ॥ एतदिति ॥ बलवच्छिक्षितानामपि चेतः बुधजनपरितोषावधि आत्मन्यप्रत्ययमिति यदुक्तम् तदेतदित्यर्थः । एवमित्यङ्गीकारार्थे नाट्योक्तिः "एवस्य एव्व" इति शौरिसेनीभाषायां निपातः अनन्तरकरणीयं रंगस्थले कर्तव्यप्रत्याहारादिभिर्लोकपालादिपूजाकरणादनन्तरकरणीयमित्यर्थः तावत्क्रमेण ॥ किमन्यदित्यादि॥ अस्याः परिषदः श्रुतिप्रसादनतः श्रवणेन्द्रियतर्पणतः अन्यदनन्तरकरणीयं किमिति क्षेपे । गानश्रवणादन्यदनन्तरकरणीयं नास्तीत्यर्थः । "किं वितर्के परिश्रमे क्षेपे निन्दापराशयोः" इति विश्वः । "रंगं प्प्रसाध्य मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कञ्चिदुपाहृद्याद्भारतीे वृत्तिमौश्रयन्" इति वचनार्थमभिसन्धाय नटी पृच्छति -


१ अत्यधिकं क. पु. ।

  1. इत्यधिकं क.पु.