पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( २९ )
टीकाद्वयसहितम्।


सूत्रधारः- (विहस्य) आयें, कथयामि ते भूतार्थम् ।

आ परितोषाद्विदुषां न साधु मन्ये प्रयेगविज्ञानम् ।
बलवदापि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ २ ॥


न किमपि परिहास्यते परिहीनं भविष्यतीति नटस्तुतिः ॥ भूतार्थं सत्यार्थम् । 'भूतं क्ष्मादौ पिशाचादौ न्याये सत्योपमानयोः ।' इति विश्वः । आ' परीति । विदुषां परितोषादा परितोषं मर्यादीकृत्य । यावत्परितोषो भवतीत्यर्थः । 'आडू मर्यादावचने' इति कर्मप्रवचनीयत्वे 'पञ्चम्यपाङ्परिभिः' इति पंचमी । प्रयोगस्य चतुर्धाभिनयप्रयोगस्य विशिष्टं ज्ञानं साधु सम्यङ् न मन्ये । ज्ञानमात्रं न साधु मन्य एव विशिष्टमपि ज्ञानं न साधु मन्ये । आत्मन इत्यार्य नट्याः “अजस्स" इत्युक्तेः । अन्यथा वक्ष्यमाणव्यङ्गयावकाशोऽपि न स्यात् । असस्यार्थे तस्मिन्विशेषे वक्तव्ये सामान्यमुक्तमित्यप्रस्तुतप्रशंसा स्यात् ।


भिन्नं स्वरूपं प्रकाशयतीति । अत ए्वोक्तम् प्रयोगस्य सुविहितत्वम् । प्रकृतनाटकस्य तद्वत्तयार्यस्य सूत्रधारस्य तत्प्रधानत्वादन्येषां पात्रवर्गाणां प्रधानफलसंबंधस्य युक्तत्वात्किमपि परिहासयिष्यति । परितः सर्वविषये अनौचित्यादिरूपहानिर्न भविष्यतीत्यर्थः । अनेन वस्तुत्रय उक्तः । अस्मिन्वाक्येऽन्योऽप्यर्थो युज्यते । नाटकादौ निखिलवाक्यानां प्रकृतपर्यवसायीकर्तव्यात् । तथा हि-आर्यस्य दुष्यंतस्य सुविदितप्रयोगतया प्रयुक्तिः प्रयोगः क्रिया गान्धर्वविवाहः तस्य सुवितत्वं शास्त्रीयत्वं तद्वत्तया किमपि कण्वाद्यसंमत्यादिकं न परिहापयिष्यति हानिं न कारयिष्यति । गान्धर्वविवाहस्य शास्त्रीयत्वादिति शब्दशक्तिमहिम्ना सूच्यते । अस्मिन्वाक्ये शब्दशक्तेरनेकार्थयोजना त्रिगतं नाम वीथ्यङ्गमुक्तम् । तदुक्तं दशरूपके - "शब्दशक्तेरनेकार्थयोजनं त्रिगतं त्विह । नटादित्रितयालापपूर्वरंगे तदिष्यते ॥" इति एतन्नटीवाक्यस्थशब्दशक्तेरनेकार्थयोजनं त्रिगतं भवति । वीथ्यङ्गान्युच्यन्ते - "उद्घाट्यकावलिगिते प्रपंचत्रिगते छलम् । वा केत्यधिबले गंडमवस्यंदितनालिके ॥ असत्प्रलापव्याहारो मृदवानि त्रयोदश्" इति । सुविहितेत्यादिना नट्या प्रयोगस्तवे कृते नट: स्वस्याऽनधत्यं प्रकाशयन्नाह- आर्ये कथयामि इत्यादिना । भूतार्थं सत्यार्थम् ,। “युक्ते क्ष्मादावृते भूतम्' इत्यमरः । आपरितोषादिति। विदुषां प्राज्ञानां निरुपपदेन सर्वज्ञता सूच्यते । न तु पामराणामित्यर्थः । "विनोदविदुर्विदुश्च विद्वान् प्राज्ञः प्रवादुकः" इत्यजयः । विदुषां इत्यनेने बहवः पामरप्रभृतवस्तु वाच्यमर्थमनायासादप्यवबुद्ध्यन्ते । व्यंगार्थसंवेदनवैदग्ध्ये तु कतिचिदेवाधिकारिण इति ध्वन्यते । वाच्यार्थावगमे शब्दानुशासनवैधिकादिज्ञानमात्रमुपयोगी । व्यंग्योपलम्भे तु प्रकरणादिसहकृतं यत्प्रतिभाया नैर्मल्यमव्युत्पत्तिकलङ्कशून्यत्वं तदाधि