पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २८ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


 नटी- सुविहिदप्पऑअदाए अज्जस्स ण किं वि परिहाइस्सदि। [सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते ।


विहिपको अदाए सुविहितप्रयोगतयार्यस्य न किमपि परिहाइस्सदि्प रिहास्यते । आर्यस्य सुविहितप्रयोगतया सुशिक्षिताभिनयप्रयेगतया


सुविहिदेत्यदि । प्रयुज्यत इति प्रयोगस्तथाविधं वस्तु तस्य सुविहितत्वं सम्यक्त्वं सम्यक्करणं नामोचितस्वीकारोऽनुचितपरित्यागः प्रयोगयोग्यतया रचना । तदुक्तम् - “यदत्रानुचितं किंचिन्नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥" इति । यथा उन्मत्तराघवे छद्मना वालिवधः परित्यक्तः । यथा महावीरचरिते वालिसौहृदेन रावणस्य रामो वधार्तमागत इत्यन्यथाकृतः । उचितकरणानुचितपरित्यागवत्तया आर्यस्य सूत्रधारस्य किमपि न परिहासयिष्यति । प्रयोगनिबन्धनहानिं न करिषयतीत्यर्थः । अनेन नाटकनिबद्धवस्तुमाहात्म्यादनौचित्यादिकमज्ञेनाप्यभिनयं क्रियमाणं न भवतीति व्यज्यते । यद्वा प्रयोगस्य सुविहितत्वं नाम प्रस्तावनामारभ्य भरतवाक्यावधि विच्छेदनराहित्येन धाराधिरूढं प्रतीयमानस्य नायिकानयकानुरागरूपशृंगारस्य तद्वद्वेगकारि मिथोवारिधि बीभत्साद्भुतादीनामपरिपोषणम् । तदुक्तम् शृंगारतिलके - "शृङ्गारबीभत्सरसौ तथा वीरभयानकौ । रौद्राद्भुतो तथा हास्यकरुणौ वैरिणां मिथः ॥" इति । प्रधानभूतशृंगारस्य आवत्परिपोषस्तदंगभूतानामद्भुतादीनां तावत्परिपोषो न कर्तव्य इत्यर्थः । उत्कर्षसाम्येऽपि विरोधित्वप्रसंगात् । यद्वा प्रयुज्यत इति प्रयोगरसभावनेत्रनायकादयः तेषां सुविहितत्वं भिन्नवेषभाषाक्रियाभिर्यथौचित्यं करणम् । तदुक्तम् - "वेषभाषाक्रियाभिन्नतत्तद्व्यक्त्युचितान् क्रमान् । रसानुरूपं जानन्ति नाटकेन सचेतसः ॥" लोके हि रमानामालंबनभूतनायका उदात्ता अद्गता ललिता शान्ताश्चेति दक्षिणा अनुकूला शठा दृष्टाश्चेति उत्तमा मध्यमा अधमाश्चेति प्रतिरसं भिद्यते । नायिकाश्च ऊढाः कन्याः साधारणाश्चेति मुग्धा मध्याः प्रगल्भाश्चेति स्वाधीनप्रतिका वासकसज्जिकाः कलहान्तरिताः विप्रलब्धाः प्रोषितपतिका अभिसारिकाश्चेति बहुविधा भिद्यन्ते । तेषां वेषा भाषाः क्रियाश्च भिन्नाः भवन्ति नाटकेषु कविभिस्तेषां यथौचित्यमुपनिबन्धे सहृदयाहृदयचमत्कारकारी रसपरिपोषः समुनिमिषति । नायकादेर्वेषभाषाक्रियादीनामयथोपनिबन्धे काव्यमेव रसभंगाय परिणमति । तदुक्तम् ध्वनिकृता - "अनौचित्यादृते नान्यद्रसभंगस्य कारणम । प्रसिद्ध्यौचित्यबन्धस्तु रसस्योपनिषत्परा ॥" इति । उपनिषद रहस्यमित्यर्थः । तर्हि लोकसिद्धमेव रसपरिपोषकृदौचित्यं लोकादेव ज्ञायतां किमनेन काव्येनेत्याशंक्याह् - "न् किङ्चिदप्यनौचित्यं नाट्यं सोढुं प्रगल्भते । तस्मादौचित्यवत्काव्यं तद्वेदयति धीमताम् ॥ वेदयति" स्वामिनां वेष ईदृशाः भाषा ईदृशी क्रियाश्चेदृश्यः भृत्यानां पुनरेवं वेषः एवं भाषा एवं क्रियाश्चेति प्रतिव्यक्ति


१ वेदपादि । ई० पू० ।