पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( १९७ )
टीकाद्वयसहितम्।


 इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
  निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः।
 अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धना-
  त्कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ १४ !


नानौचित्यप्रसङ्गात् । इदमिति । निशि निशि प्रतिरात्रम् । अनेन दर्शनात्प्रभृत्यद्य यावदेतदवस्था द्योतिता । भुज उपधानीकृते न्यस्तो योऽयमपाङ्गो नेत्रान्तस्तत्र प्रसर्तुं शीलं येषां तैः । अत्र प्रजागराच्छय्ययां परिवृत्तिविवर्तनैः सत्यप्युपधाने तस्य निष्फलत्वाद्भुजोपधानत्वमुक्तम् । अन्त- स्तापादशिशिरैरुप्णैरश्रुभिर्विवर्णा मणयो यत्र तत् । अविवर्णमणि विवर्णमणि संपादितं विवर्णमणीकृतम् । अनेनापि दीर्घकालमियमवस्था व्यज्यते । स्वभावत एव वलयस्य शिथिलत्वे कामावस्थाकृततनुताप्रतीतिर्न भवतीति तस्य स्वभावस्थितिसूचकं विशेषणमाह । अनभिलुलितोऽस्पृष्टो ज्याघाताङ्को येन तत् । तदुपरिभागे गाढत्वेन स्थितत्वात् । एतादृशं कनकवलयम् । कनकेति शैत्यद्योतनाय । वलयमित्येकवचनेन विरहित्वात्सर्वाभरणपरित्यागो द्योत्यते । स्रस्तं स्रस्तं वारंवारं पाणिमूलमागतं कार्श्यात् । मणेर्बन्धनमत्र मणिबन्धनं भुजस्य पाणेश्च संधिः । तस्मान्मया राज्ञा दुष्यन्तेनापि सता मुहुर्वारंवारं न तु सकृत्प्रतिसार्यत ऊर्ध्वं नीयते । स्वभावोक्तिः । अथ च प्रजागरत्वे कृशत्वे च कारणे वक्तव्ये यत्तयोरश्रु-


यावत् । शीघ्रं स्फुटं प्रकाशमित्यर्थः । सत्यमित्यादि । सत्यं तत्त्वतः । इदमिति । इदं कनकवलयं मया प्रतिसार्यत इति योजना । कीदृगित्याह । अंतस्तापादिति । वाष्पस्या- ग्निसंबंधाभावेनोष्णत्वमसंभाव्यमिति । तदुपपत्तिमाह अंतस्तापादिति । विप्रलंभजनितज्वरेण सर्वांगसंतापवत्त्वात्ततोऽग्निच्छलतः बाष्पस्योष्णत्वोपपत्तेः । निशि निशि वीप्सायाम् । अनेन सार्वकालिकतदेकतानगाढानुरागजनितचिंता व्यज्यते । भुजन्यतापांगप्रसर्पिभिरिति । अरत्या शय्योपधानाद्यभावेनान्यकान्तालिंगनादिसंभावनाभावाच्च स्वभुजमेवोपधानीकृत्य शयने क्रियमाणे अपांगस्य तत्संयोगित्वेन ततः सर्वदा प्रसरणशीलैरित्यर्थः । श्रुतिभिरिति वहुवचनेन सार्वकालिकनियंत्रणप्रसरणमुच्यते । विवर्णमणीकृतमिति । स्वाभाविककान्तिमन्तोऽपि मणयः उष्णजलादिसंवंधेन दर्पणादिवद्विवर्णा भवन्तीति च्विप्रत्यय उक्तः । अनतिलुलितज्याघातांकमिति । ज्याघातेन प्रकोष्ठस्य किणितत्वेन वलयं तत्र क्षणं प्रतिवद्धं भवतीत्यर्थः । अनेन स्वस्य शूरतया युद्धवीरत्वं सूच्यते । स्रस्तं स्रस्तमिति


१ प्रसर्पिभिः इति क० पु० पी० ।२ अनति इति ई० पू० पी० ॥