पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १९४ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला-तं जइ व अणुमदं तां तह वट्टह जह तस्य राए- सिणो अणुकम्पणिज्जा होमि । अण्णहा अवंस्सं सिञ्चध मे तिलो- दअं । [ तद्यदि वामनुमतं तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चतं मे तिलोदकम्। ]

 राजा-–संशयच्छेदि वचनम् ।

 प्रियंवदा -( जनान्तिकम् ) अणमूए, दूरगअबम्महा अक्खमा इअं कालहरणस्स । जस्सिं वद्धभावा एसा सो ललामभूदो पोरवाणं । ता जुत्तं से अहिलासो अहिणन्दिदुं ! [ अनसूये, दूर- गतमन्मथाक्षमेयं कालहरणस्य । यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् । तदुक्तमस्या अभिलाषोऽभिनन्दितुम् ]


तद्यदि युवयोरनुमतं तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि अन्यथावश्यं सिंचतं मे तिलोदकम् | अनेन शमो नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु- तस्योपशमनं यत्तु शमनं तदुदाहृतम्’ इति । दूरगतमन्मथाक्षमा कालहरणस्य । अत्राद्यावस्थात्रयं प्रथममेवोक्तम् । तनुतानन्तरमेवोक्ता ।


प्रावृषि नितरामभ्यर्णजलागमो दिवसः इति "। तम् इत्यादि । यत्स्वशरीरसंतापस्य दुष्यन्तविषयत्वं मया कथितं तदित्यर्थः । युवयोरनुमतं यदि स्वानुरागस्य रूपलावण्य महाकुलीनत्वाद्याभिजात्यगुणविशिष्टपुरुषविशेषविषयतया युवयोर्मनसि पतितं चेदित्यर्थः । तथा वर्तेथामित्यनेन तत्प्राप्त्युपाये दृढप्रयत्ने भूत्वा मम जीवितं धारयेथामित्यर्थः । यथानुकंपनीया भवामीत्यनेन स्वस्य दुष्यन्तविषयगढानुरागो विद्यते तस्यापि स्वस्मिन्ननुरागोऽस्ति वा नवेति न जान इति व्यज्यते । यद्यनुरागः स्यात्कथमेतादृशा वस्थापन्नां मामुपेक्षत इति भावः । राजर्षेरित्यनेन राज्ञस्तु लोकोत्तरबहुवल्लभासु सतीषु कथमरण्यवासिन्यां मयि तस्यानुरागो भवेदिति व्यज्यते । यथान्तःपुरस्त्रीभ्यः स्वस्मिन्न- धिकगुणाः सन्ति तर्हि मयि राज्ञोऽप्यनुरागः स्यादिति भावः । येन केनापि प्रकारेण तत्प्राप्त्युपाये यतनीयमित्यभिप्रायः । वैपरीत्ये दोषमाह- अन्यथेति अन्यथा तत्प्राप्त्यभावे । उदकं सिंचतं निवापजलं प्रयच्छतम् ! अनेन स्वस्य मरणमेव शरणमित्याशयः । तेनात्मन आसन्नमरणसमानदशा सूच्यते । सिंचतमिति विध्यर्थेन स्वस्यापि जीवित- विषये नैराश्यं व्यज्यते । विमर्शच्छेदीत्यादि । विमर्शच्छेदि संशयापनोदि । प्रियंवदा शकुन्तलावचनव्यंग्यं मरणरूपमित्येवेति निधाय ब्रूते । अणसूये इति । अत्र मन्मथ


१ ता ( तदा ) इति क्वचित् पु० नास्ति० । २ अवस्सं / अवश्यम् ) इति क० पु० नास्ति । ३ मे उदअं (मे उदकं) इति क० पु• पाठः । ४ विमैशंच्छेदि इति क्० पु० पाठः। ५ तस्मात् इति क० पु० पाठः ।