पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १७८ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 (विचिन्त्य) भगवन्मनोभव ! कुतस्ते कुसुमायुधस्य शरतक्ष्ण्येमतत् ? (स्मृत्वा) आं ज्ञातम् ।

अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वत्यौर्व इवाम्बुराशौ ।
त्वमन्यथा मन्मथ ! मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥४॥

अथवा ।

अनिशमपि मकरकेतुर्मनसो रुजमावहन्नपि मतो मे ।
मयि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ ५ ॥

भगवन् कामैवमुपालभ्यते न मां प्रत्यनुक्रोशः ।

वृथैव सङ्कल्पशतैरजस्रमनङ्ग नीतोऽसि मयातिवृद्धिम् ।
आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः ॥६॥


रग्निमिति गुणद्रव्ययोर्विरोधः । विप्रलम्भस्वाभाव्यादाभासत्वं चूर्णिकया श्लोकपूर्वार्धे यथालंकारः कुसुमेषु यद्बाणत्वमारोपितं तद्विरहदुःखदत्वेन प्रकृतोपयोगीतेि परिणामश्च । आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति तल्लक्षणात् । त्वं त्वेति मिन्दोमिंदमिति छेकवृत्त्यनुप्रासौ । मालिनीवृत्तम् । उत्तरार्धे क्रमप्रक्रमभङ्गो विरहणो राज्ञो वचनमिति परिहर्तव्यः । 'त्वमिह कुसुमबाणान्वज्रसारान्विधत्से विसृजति स च वह्निं शीतगर्भर्मयूखैः' इति वा पाठः । अत्र च पाठे शीतपादोपादानादुद्देश्यप्रतिनिर्देश्ययोरेकपदोपादानलक्षणो गुणाः । इन्दुशब्दानुपादानात्कथितपददोषाभावश्च


मयूखा दृश्यन्त इति भावः । यद्वा वर्तमानसामीप्ये लट्प्रत्ययः तेन चेतःपरं पुनरपि रात्रौ चंद्रकिरणजनित दुःखमागतप्रायमिति द्योत्यते रात्र्यागमनात्प्रागेव प्रतीकारः कर्तव्य इति भावः । कुसुमबाणानिति बहुवचनेन मदनजनितयहुदुःखानुभवेन स्वस्य मरणसध्रीची दशा सूच्यते । यद्वा बहुवचनेनैकैकस्य वाणस्य मदनस्तु नैष्फल्यं मत्वातिक्रोधेनामोधास्त्रमपि मुक्तवानिति द्योत्यते । अत एवोक्तं वप्रसारीकरोषीति । तेन च स्वस्य जीवितस्य कालाक्षमत्वं व्यज्यते । अत्र श्लोके गर्हणं नामालंकारः तदुक्तम् –“यत्र संकीर्तयेद्दोषं गुणमर्थेन दर्शयेत् । गुणातिपाताद्दोषाद्वा गर्हणं नाम तद्भवेत् ॥” इति वस्तुनि दोषकथनाद्वा गुणाभावकथनाद्वा गर्हणं भवति । अत्र इंदुमदनयोर्गर्हणं कृतं न


१ विचिंत्यप्रभृति बाणभोक्षः इत्यधिकं कु० पू० २ कामदेव न ते

मय्यनुकोशः । ( मदनत्रञ्च निरूप्य ) इय० क« पु°

३ यदि इ० पा० ।