पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १७६ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 (मदनबाधां निरूप्य) भगवन्कुसुमायुध, त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः । कुतः।


भासस्तु रतिस्वाभाव्यात् । श्रुतिवृत्त्यनुप्रासौ । मदनवाधां निरूप्येति । लोलितेन शिरसा दोलेन हस्तकेन शून्यया दृष्ट्येत्यादि ज्ञेयम् । तल्लक्षणानि तु -'शिरः स्याल्लोलितं सर्वादिक्कैः शिथिललोचनैः' इति । 'लम्बमानौ पताकौ तु श्लथांसौ शिथिलांगुली । दोलो भवेदसौ' इति । "समतारापुटा दृश्यदृष्टिः शून्यविलोकिनी' इति । अथवा दोलस्थाने कर्कटं कुर्यात् । तल्लक्षणं तु - 'अन्योन्यस्यान्तारैर्यत्राङ्गुल्यो निःसृत्य हस्तयोः । अन्तर्बहिर्वा दृश्यन्ते कर्कटः सोऽभिधीयते ॥ अन्तःस्थितांगुलिः पृष्टे त्वङ्गुलीना हनुं दधत् । चिन्तायामथ खेदे च' इति । अत एवोक्तम् - 'सूचयन्त्यान्तरं भावं ये कराः कर्कटादयः । विषण्णादिष्वपि प्रायः प्रयोज्यास्ते सतां मताः ॥' इति | विस्वसनीयाभ्यामित्यत्रोपात्तविशेष्यार्थो हेतुत्वेनोपात्तोऽवगन्तव्यः । कामिजनसार्थो विरहिसमूहोऽतिसं-


तथापि सर्वं ज्ञात्वा ततः शकुन्तलाया हृदयं सर्वकरणप्रधानभूतं मनः निवर्तयितुं नालमस्मि न समर्थोऽस्मि । तदनुगापि मम चित्तं मया निवर्त्यमानमपि तत्सौन्दर्यबलान्न निवर्तत इति भावः । अनेन राज्ञः शंकारूपव्यभिचारिभाव उक्तः उक्तं च - "अनर्थो प्रेक्षणं शंका परकीर्यात्स्वदुर्नयात्" इति । अत्र राज्ञा पित्रादिभिरदत्तशकुन्तलापरिग्रहणरूपस्वदुर्नयान्मुनिक्रोधाय शापरूपानर्थोत्प्रेक्षणं कृतम् । मदनबाधामित्यादि । निरूपयन् नितरां रूपयन् अभिनयन्निति यावत् । निमीलननिश्वसाद्यतिशयमवयवपारवश्यादिना दर्शयन्नित्यर्थः । अत्र राज्ञः शकुन्तलाहृतत्वेन पारवश्याद्यस्तेन मदनबाधाभिनयो न कर्तव्यः किन्तु सात्त्विकभावैरेवाभिनेतव्यः अत एवोक्तम् निरूपयन्निति । तदुक्तम् भरतेन "विषण्णे मूर्च्छिते हीते जुगुप्साशोकपीडिते । ग्लाने सुप्ते विहस्ते च निश्चेष्टे तंद्रिते जडे ॥ व्याधिग्रस्ते ज्वरार्ते च भयार्थे शीतविप्लुते । मत्ते प्रमत्ते चोन्मत्ते चितायां तपसि स्थिते ॥ न हस्ताभिनयो योज्यः कार्यः सत्वस्य संग्रहः ॥" इति विषण्णादिशब्दास्तत्तत्संचारिवाचकाः विषणादिषु पारवश्याद्विवेकाभावेन यथोचितहस्ताभिनयाभावात्केवलं स्तम्भस्वेददीनदृंष्ट्यश्रुपातगद्गदत्वादिभिरेवाभिनयो योज्यः । केवलहस्ताभिनये तादृशचमत्काराभावादित्यर्थः । भगवन्नित्यादि । भगवन्निति साक्षेपवचनं । यद्वा । दैन्योक्तिः कुसुमायुध पुष्पायुधेत्याक्षिप्यमाणार्थेन संभोधनम् । अनेनेतरधन्विवलैक्षण्यमुक्तम् । चन्द्रमसेति | "चदि आल्हादने" इत्याह्लादकार्थश्चंद्रशब्दः । विश्वसनीयाभ्यामुक्तनाम्नः सार्थकत्वभ्रमेण विश्वासयोग्याभ्याम् अतिसन्धीयते बाह्याकारेण वंचयित्वान्तर्निगूढं