पृष्ठम्:अद्भुतसागरः.djvu/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
सूर्याद्भुतावर्त्तः ।
 कान्तारमथ गोपाश्च कन्दरास्तस्करास्तथा ।
 समरे विषमाः शूरास्तरवः कटुका अपि ॥
 चक्षुष्पादा भेषजं च धान्यं च भिषजस्तथा ।
 अरण्ययायिव्यालाश्च कर्षका व्याडकास्तथा ॥
 गैरिकं पद्मकिञ्जल्कं पुंसंज्ञा ये च जन्तवः ।
 सर्वेषां भास्करः स्वामी तेजस्तेजस्विनामपि ॥

गौडमिति द्रष्टव्यं वराहसंहितायाम् ।

 प्राङ्नर्मदार्धशोणोडूबङ्गसुह्माः कलिङ्गबाह्लीकाः ।
 शकयवनमगधशबरप्राग्ज्योतिषकचीन[१] काम्बोजाः ॥
 मेकलकिरात[२] पावनबहिरन्तःशैलजाः पुलिन्दाश्च ।
 द्रविडानां प्रागधं दक्षिणकूलं च यमुनायाः ॥
 चम्पोदुम्बरकौशाम्बिचेदिविन्ध्याटवीकलिङ्गाश्च ।
 पुण्ड्राश्च गोलाङ्गूलश्रीपर्वतवर्धमानाश्च ॥
 इक्षुमतीत्यथ तस्करपारतकान्तारगोपबीजानाम् ।
 तुषधान्यकटुकतरुकनकदहन विषसमरशूराणाम् ॥
 भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रयायिचौराणाम् ।
 व्यालारण्ययशोयुततीक्ष्णानां भास्करः स्वामी ॥

गर्गः ।

 स्निग्धरश्मिविशालश्च प्रकृतिस्थश्च यो ग्रहः ।
 ग्रहयुद्धरंजोधूमनिर्घातोल्काभिराहतः ॥
 न यदा स्वोच्चराशिस्थो मित्रभे स्वगृहेऽपि वा ।
 स्थितः शुभग्रहैर्दृष्टः संपुष्णाति परिग्रहम् ॥

  1. काश्मीराः इति ख. ।
  2. विटका इति अ. । किराताद्रिसंस्था इति ख.।