मत्स्यपुराणे ।
अथातः संप्रवक्ष्यामि त्रिविधेष्वद्भुतादिषु ।
विशेषेण तु भौमस्य शान्तिः कार्याऽमृता भवेत् ॥
अभया चान्तरिक्षेषु सौम्याऽऽदित्येषु पार्थिव ॥
विष्णुधर्मोत्तरे ।
सर्वोत्पातप्रशमनी अमृता चाऽभया स्मृता ।
सौम्या चैव महाशान्तिः सर्वकामफलप्रदा ॥
विशेषेण तु भौमेषु शान्तिः कार्याऽमृता भवेत्-इति ।
सन्निहित[१] पुण्यनक्षत्रप्राप्तौ [२] पुण्याभिषेको वा कर्त्तव्यः ।
तथा च वराहसंहितायाम् ।
नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ।
मङ्गल्यं चापरं नास्ति यदस्मादतिरिच्यते ॥
अथाद्भुतानां फलपाकस्थाननिर्देश:। तत्र पराशरः ।
नृपनृपतिसुतराज्ञीकोषलोकपुरपुरोहितवाहनेष्वतेषां फलमतिनिवर्त्तते ।
मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।
राज्ञः शरीरे लोके च पुरे दारपुरोहिते ।
पाकमायाति पुत्रेषु तथा वै कोषवाहने ॥
नृपादिपरं स्वाम्यादिपरं माण्डलिकगृहस्थादीनामपि फलदर्शनात् ।
तथा च गर्गः ।
पुरे जनपदे कोषे वाहने च पुरोहिते।
पुत्रे स्वामिनि भृत्ये च पच्यते दैवमष्टधा ॥
देवस्याष्टत्वाद्दैवम् ।
अथोत्पातफलपाकस्थानं वटकणिकायाम् ।
दिव्या जगतो देवस्य नाभसाः पार्थिवस्य भूप्रभवाः ।
- ↑ पुष्य इति ग. घ. ।
- ↑ पुष्य इति ग. घ. ।