पृष्ठम्:अद्भुतसागरः.djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ
मिथिलामहीमहेन्द्रनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवसम्पादितोऽयम्।

अद्भुतसागरः ।

 आवृत्तानागतातीतसूक्ष्मसाक्षात्प्रदर्शनम्
 परं ज्योतिरिवानन्तं ज्यौतिषं तदुपास्महे ॥
नृपकोटिकिरीटरोचिरंशुस्नपनप्रांशुनखांशुमञ्जरीकैः ।
'चरणैर्धरणीं प्रसाधयन्तो वि'[१]यदोजोऽधिकमासतेन्दुवंश्याः ॥
 भुजातेजस्तेषामियमसहमानेव वसुधा
  द्विधा भावं-भावं नवशकलभावं गतवती ।
 यशोलेपानां तद्विलसितमहो नेयमभवद्-
  विदीर्णब्रह्माण्डस्थविरपिठरीकर्परपुटः ॥
 भुवः काञ्चीलीलाचतुरचतुरम्भोधिलहरी-
  परीताया भर्त्ताऽजनि विजयसेनः शशिकुले ।
 यदीयैरद्यापि प्रचितभुजतेजःसहचरै-
  र्यशोभिः शोभन्ते परिधिपरिणीता इव दिशः ॥

वेदायनैकपथिकः ककुभां भुजङ्गः संग्रामरङ्ग इव जङ्गमतामुपेतः ।
चेतोमहौषधिनेवेशवशाहितश्रीर्वल्लालसेन इति भूमिपतिस्ततोऽभूत् ॥
 किं लक्ष्म्या तुलयामि कातरशतं पान्त्या नृणां तं सुरं
 लक्षाप्याजिविचुम्बितां स सकलां धत्ते सुदोस्सम्पदम् ।


  1. सर्वपुस्तकेषु विकलोऽयं श्लोकः पूर्वापरार्थसङ्गत्या कोष्टान्तर्गतपदसंरक्षणेनालङ्कृतः । एवमन्यत्रापि बहुत्र स्थलेषु लेखकव्यामोहिताः पाठा यथामति शोधिता अपि विषय निष्णांतैः सर्वथाऽऽलोच्य सर्वजनाह्लादकान् प्राचीनलिखितपुस्तकवर्णानुसारांस्तानन्यथाऽपि परिशोध्य कृपयाऽवश्यं विज्ञाप्याः ।